________________
92]
KAVYAPRAKASA-SAMKETA
रुचक
पृ.
४२ ( 11 ) अत्र सखीविषयं वाच्यम् । अस्या भ्रमरेण दष्टाधरेयं न परपुरुषेणेति सखीकृतसमर्थनरूपं व्यङ्गयं पतिविषयम् । अद्य मया समर्थितं पुनः प्रकटेऽङ्गे त्वया खण्डनादि न कर्तव्यमि - त्युपपतिविषयम् । प्रियायाः सवणमधरं दृष्ट्रा रोषो भवति, अप्रियायास्तु दृष्ट्रा परिहास - हेतुरानन्दो भवति, तद्धर्षो मा युष्माकं भूदिति (भूयादिति) सपत्नीविषयम् । अत्रार्थ इदानीमेष किञ्चिद् वदति त्वं कुप्यसि ततः पादपतनादिना यदि प्रार्थ्य से तत् सहस्व शोभवेत्यर्थ इति सखीविष यम् । नान्यथाऽस्याः संभावनीयमिति प्रातिवेश्मिकविषयम् । युक्तया मया संवृतोऽपराधः सख्या इति स्ववैदग्ध्यख्यापनं विदुग्धविषयम् । अद्य मया समर्थितं, पुनस्त्वया सावधानया भवितव्यमिति सखीविषयमेव, अनया विना त्वं न भवसि तव हीयं प्रिया, तदर्थापराधोद्घाटनं न कार्यमिति पत्यु वैदग्ध्ये सति तद्विषयम् ।
सोमेश्वर
पृ.
१०४ (11) 'सहस्वेदानीं' इति वाच्यमविनयवतीविषयं, भर्तृविषयं तु अपराधो नास्तीत्यावेद्यमानं
उल्लास ६
[ उ. ५
व्यङ्ग्यम् । तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्या तिशय ख्यापनम् 'प्रियाया' इति शब्दबलादिति सपत्नीविषयं व्यङ्ग्यम् । सखीमध्ये इयता खलीकृतास्मीति लाघवमात्मनो न ग्राह्यं, प्रत्युतायं बहुमानः । सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्ग्यम् । अद्येयं तव प्रच्छन्नानुरागिणी मयेत्थं रक्षिता, पुनः प्रकटदशन रदनविधिर्न कार्य इत्युपपतिविषयं व्यङ्ग्यम् । नान्यथास्यां संभावनीयमिति प्रातिवेश्मिकविषयं व्यङ्ग्यम् । युक्तया मया संवृतोऽपराधः सख्या इति स्ववैदमध्यख्यापनं विदग्धविषयं व्यङ्ग्यमित्याह ।
There is no Samketa of Rucaka on this Ullasa,
I