________________
उ. ५ ]
INTRODUCTION : APPENDIX B
रुचक
पृ.
-४१ (7) श्रुतीति । " ऐन्द्रया गार्हपत्यमुपतिष्ठत" इत्यत्र गार्हपत्योपस्थाने ऐन्द्या विनियोगस्तुती या प्रतिपादित इति श्रौतः । (8) " बर्हिर्देवसदनं दामी" ति देवाश्रयदर्भच्छेदनेऽयं मन्त्रो दामी ति लिङ्गादङ्गात् प्रतिपाद्यते ।
४२
(9) आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते (?) इति अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यत्रारुणादीनां परस्परं पुनर्वाक्यीयः ।
प्रयाजा
( 10 ) दर्शपूर्णमासप्रकरगे उक्ता इति प्रकरणाद् दर्शपूर्णमासयोरेव क्रियन्ते । "अग्निरनस्यान्नपतिस्तस्याहं देवयज्य - याsन्नस्यान्न पतिर्भूयासमि" ति मादाय याग उपांशुयागोमयागश्चेति यागत्रयं क्रमेण स्थितम् । तत्र प्रथमतृतीयाभ्यां मन्त्राभ्यां लिङ्गाद्यदाद्यन्तौ यागावाक्षिप्येते द्वितीयेन मन्त्रेण द्वितीयो यागस्तत्स्थानवशात् । उद्गाता ऋत्विगध्वर्युरित्यादेरुद्गाते त्यादिसमाख्यावशात् सामवेदादावधिकृत इति निश्चीयते । 'ता' इति । उद्गायतीत्यादिसमाख्ययाऽन्वर्थे संज्ञाबलात् सामयजुऋग्वेदेष्वधिकृत इति निश्चीयते तेष्वङ्गभाव इत्यर्थः ।
[ 91
सोमेश्वर
पृ.
अत्र
१०० ( 7 ) ' ऐन्द्र्या गार्हपत्यमुपतिष्ठते ।' गार्हपत्योपस्थाने ऐन्द्या ऋचो विनियोगस्तृतीयाप्रतिपादित इति श्रौतः । ऐन्या अङ्गभावः प्रतिपाद्यत इत्यर्थः ॥ (8) 'बर्हिर्देवसदनं दामि' इति । देवाश्रयदर्भच्छेदनेऽयं इति । 'दामि' इति लवनलिङ्गाद् अनेन मन्त्रेण वहींषि लुनीयादिति प्रतीयते ॥
मन्त्र
१००-१०१ (9) वाक्यतो यथा- 'श्वेतं छागमालभेत ' अत्रैकवाक्योपादानाच्देवगुणस्य च्छागावच्छेदकत्वेन क्रियाङ्गभावो गम्यते । यथा वा 'अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति' इत्यत्र अरुणादीनां क्रमेण संबन्धः श्रौतः । अरुणैकहायन्यादीनां परस्परं पुनर्वाक्यीयम् ॥ १०१ ( 10 ) दर्शपैौर्णमासप्रकरणे 'समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजति' इति पञ्चप्रयाजा उक्ताः, ते च दर्शपौर्णमासयोरेव क्रियन्ते तदङ्गत्वमवगम्यत इत्यर्थः ॥ 'अग्निरन्नस्य' etc. 'दधिरस्यदर्थो' 'अग्नीषोमौ' etc. इति मन्त्रत्रयात् आग्नेयो याग उपांशुयाज (ग) आग्नीषोमीयो यागश्चेति यागत्रयं क्रमेण स्थितम् । तत्र प्रथमतृतीयमन्त्राभ्यां देवयज्यालक्षणाल्लिङ्गाद् आद्यन्तौ यागौ आक्षिप्येते, द्वितीयेन मन्त्रेण द्वितीयो यागस्तु, आश्रीषोमीयलक्षण उपांशुयाजः स्फुरदोष्ठमुद्रस्वरः स्थानवशात् ॥ उद्वाताऽध्वर्युर्होता ।