________________
उल्लास ४
रुचक
सोमेश्वर
२० (1) तस्मात् सर्वप्रमातृणां यो रस-
नीयः [स] सर्वप्रमातृतावलम्बनेन रस्यते । अत एव नाटकमण्डपान्तःप्रविष्टाः सर्वे हृदय
संवादभाजो भवन्तीत्युच्यन्ते । २१ (2) प्रेमाः इत्यनुवादेन परिचयादु
द्गाढरागोदया भवेयुरिति विधेयम् । लयस्तन्मयत्वम् । निशान्तोऽन्तःपुरम् । सख्युर्भावः सख्यम् , तेनोपदेशः। जीवितप्रियेत्यामन्त्रणपदद्वयम् , प्रियेति तु सुहृद्विशेषणत्वे प्रियसखैरित्यश्र(स)विशेषणं न
वाच्यम्। २२ (3) मरणम[ ? मा दीर्घकालप्रत्या-
पत्तिरितिकेचित् । मृङ्ग प्राणत्यागे इतिधात्वर्थविचारा विष
भक्षणपाशकरणादीनीत्यन्ये । २२ (4) सुप्त इवेति प्रार्थनापराङ्मुखः। ३१ (5) संस्तरस्तृणादिशय्या। प्रस्तरः
पाषाणः । एवमपि चेन्मेघभयं तद्वस । व्यङ्ग्यं तु प्रहरचतुष्टयमप्युपभोगेन नात्र निद्रां कर्तुमुपलभ्यते, सर्वत्र ह्यत्राविदग्धाः, तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्खेति वस्तु । अत्र वाच्यबाधनेन व्यङ्गयस्य स्थितित्वात् तयोर्नोपमानोपमेयभावः।
४५ (1) सर्वप्रमातृणां यो रसनीयः
सर्वप्रमातृतावलम्बनेनैव रस्यते, अत एव नाटकमण्डपान्तःप्रविष्टाः सर्वे हृदयसंवादभाजो
भवन्तीत्युच्यते। ५०-५१ (2) प्रेमार्दा इत्यनुवादेन परिच
याद् उद्गाढरागोदया भवेयुरिति विधयेम् । लयस्तन्मयत्वम् । निशान्तोऽन्तःपुरम् । सख्यु
र्भावः सख्यम् , तेनोपदेशः । जीवितप्रिय इत्यामन्त्रणपदद्वयं प्रियेति सुहृद्विशेषणे। प्रियसखैरिति अस्रविशेषणं न
वाच्यम्। ५४ (3) मरणमिति आदीर्घकालप्रत्याप
त्तिरिति केचित् । मृङ्माणत्याग इति धात्वर्थविचाराद्
विषभक्षणपाशबन्धादीत्यन्ये। ५९ (4) सुप्त इवेति प्रार्थनापराङ्मुखः । ६०-६१ (5) संस्तरस्तृणादिशय्या । मणं
मनागपि । प्रस्तराः पाषाणाः। एवमपि चेन्मेघभयं तद वस। उन्नयेति, उन्नतं मेधं प्रेक्ष्येत्यर्थः। व्यङ्ग्यं तु प्रहरचतुष्टयमप्युपभोगेन नात्र निद्रां कर्तुं लभ्यते। सर्वे ह्यत्राविदग्धाः , तदुन्नतपयोधरां मां दृष्टा उपभोक्तुं यदि वससि तदास्वेति वाक्ये वस्तुमात्रम् । अत्र वाच्यबाधेन व्यङ्गयस्य स्थितत्वात् तयोनॊपमानोपमेयभाव इति नालङ्कारो व्यङ्गयः।
12