________________
११
पृ. १२
१३
उल्लास २
रुचक
(1) व्यभिचाराच्चेति यत्र व्यक्तौ संकेतः सा व्यवहारकाले व्यभिचरति ।
(2) पारिभाषिकमिति-अन्यथा जातिशब्दत्वं स्यात् । न खलु स्वयं परमाणुर्नाप्यपरमाणुः, परमाणुत्वसम्बन्धात्तु परमाणुरिति ।
( 3 ) भद्रेति-भद्रा कल्याणप्रकृतिः, भद्रा हस्तिनां विशिष्टा जातिश्च । वंशः पृष्ठनाडिश्च । शिलीमुखा याचका (सायकाः ) भ्रमराश्च । परान् वारयतीति परवारणः, परः प्रकृष्टो वारणो हस्तीति । च दानं त्यागो मदश्च ।
रुचक
(1) यद्यपि सन्ध्यायामवकाशो भवत्येवेति विवक्षितम्, तथापि तदुच्यमानं परस्य लक्षणीयं भवतीति तथा नोक्तम् । अत्र चान्यः तटस्थः परपुरुषः ।
(2) मिथः संयोग इति । तत्र वक्तबोद्धव्ययोगे यथा अत्ता इति ।
पृ.
१३
( 3 ) महमिति निपात आवयोरित्यर्थे । ममेति तु व्याख्यायमाने व्यङ्गयस्याभिधेयत्वमिव स्यात् । अत्र वक्तृवोद्धव्य (भोद्धव्य) पर्यालोचनया शेष्व (शेध्य ) इति विधिरूपव्यङ्ग्यार्थप्रतीतिः । एवमन्येऽपि द्विकभेदास्त्रिकादिभेदाश्च स्वयमल्यूह्याः ।
१४
उल्लास ३
२९
पृ.
३३
३४
३४
सोमेश्वर
(1) व्यभिचाराच्चेति । यदि व्यक्तौ संकेतः स व्यवहारकालं व्यभिचरति बाल्यादिविशेषात् । (2) पारिभाषिकमिति । ततो न जा तिशब्दत्वम् । अन्यथा न खलु स्वयं परमाणुर्नाप्यपरमाणुः परमाणुत्व संबन्धात् तु परमाणुरिति ।
(3) भद्रेति भद्रः कल्याणप्रकृतिः । भद्रा हस्तिनां विशिष्टजातिश्च । वंशः पृष्ठनाडि [ रन्वय ]श्च । . शिलीमुखाः शरा भ्रमराश्च । परान् वारयति । परः प्रकृष्टो वारणो हस्ती च । दानं त्यागो मदश्च ।
सोमेश्वर
(1) यद्यपि संध्यायामवसरो भवत्येवेति विवक्षितं, तथापि तदुच्यमानं परस्य लक्षणीयं भवतीति तथा नोक्तम् ।
( 2 ) मिथः संयोग इति । तत्र वक्तबोद्धव्ययोगे यथा अत्ता इत्थ नु मज इति ।
( 3 ) मह इति निपात आवयोरित्यत्रार्थे न तु ममेति ॥ एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नोऽभ्युपगमो न स्यात् । ततश्च व्यङ्गयस्याभिधेयत्वमेव स्यात् । अत्र निषेधे वाच्ये वक्तबोद्धव्यपर्यालाच - नया शेष्वेति विधिरूपव्यङ्गयाप्रतीतिः । एवं द्विकयोगान्तरे त्रिकादियोगे च स्वयमूह्यम् ।