SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उ. १० ] INTRODUCTION APPENDIX A सोमेश्वर पृ. -इत्यत्रापि ३५१ ( 88 ) दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव । श्लेषस्य विषये रूपकमासूत्रितमनादृत्य उपमानुरागिणा कविना सैवोपनिबद्धा | न चासौ ताभ्यां स्पर्धितुमुत्सहते तयोः । यथा पूर्व प्रतीयमानार्थ संस्पर्शातिरेकात् तदनुविधायिनः सहृदयैकसंवेद्यस्य चमत्कारस्य संभवादिति उपमाधिक्यम् । ३५१ (89) विरोधस्य असंभवः, यथा - या धर्मभासस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी ॥ अत्र विरोधस्यैकाधारतयैव उपपत्तिरित्युक्तम् । ततो धर्मभास्तनयात्वादीनां च धर्माणां भिन्नाधारतयोक्तौ विरोधस्य असंभवः ॥ ३५१-५२ (90) तरंगय दृशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं वजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काश्ञ्चनं कालिकामुदञ्चय मना खं भवतु च द्विचन्द्रं नभः ॥ अत्र उपमानानामिन्दीवरादीनां निन्दाद्वारेण नयनादीनामुपमेयानां यस्तेभ्यो ऽतिशयो वकुं प्रक्रान्तः स मुखचन्द्रयो 'र्भवतु च द्विचन्द्रं नभः' इति साहूइयमात्रप्रतिपादनाद् न निर्व्यूढम् । 'भवतु लक्ष्यलक्ष्मा शशी' इति तु युक्तम् । ३५२ (91) इत्येष इति । एष मार्गोऽद्भुतं वर्त्म विद्वदादीनां ध्वनिकारादीनां नानाग्रन्थतया विभिन्नो [ 85 माणिक्यचन्द्र पृ. ४६७ (88) लेवं हित्वेन्दुः क्षीरनिधाविवेत्युपमारागिणा राजेन्दुरिति रूपकमुक्तम् । न चोपमा व्यङ्ग्यार्थाधिक्यवतोः श्लेषरूपकयोः समा स्यात् व्ययार्थस्पर्शाभावात् । तस्मादत्रोपमाऽधिका । ४६७ (89) तथा --- "" या धर्मभासस्तनयाऽपि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णाऽपि शुद्धेरधिकं विधातृभिः विहन्तुमंहांसि जलैः पटीयसी ॥" अत्र नद्याः पयोभिः परमार्थादैक्येऽपि शब्दार्पितनानात्वानुभवाद्विरोधस्य भिन्नाधारत्वं, तच्चासम्भवि, विरोधस्यैकाधारत्वेनोक्तत्वादित्यसम्भवो दोषः । ४६८ (90) " तरङ्ग्य दृशोऽङ्गणे पततु चित्रमिन्दीवरं " इत्यत्रोपमानभूतेन्दीवरादेरपकर्षणद्वारेण नेत्रादीनां व्यतिरेको वक्तुं प्रक्रान्तः । स च " भवतु च द्विचन्द्रं नभः " इत्युक्त्या साम्यमात्रप्रतीतौ न निर्व्यूढ इति व्यतिरेके भग्नप्रक्रमत्वम् । "भवतु तद् द्विचन्द्रं नभः" इति तु युक्तम् । ४६८-६९ (91) इत्येष इति । एषोऽद्भुतो - ऽलङ्काराध्वा । विभिन्नोऽपीति । नानाग्रन्थगतत्वेन पार्थक्येन
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy