________________
उ. १० ]
INTRODUCTION APPENDIX A
सोमेश्वर
पृ.
३४५ (80) धर्मव्यतिरिक्तेन केनचिदित्यर्थः ॥ अनिर्वाहादिति । सविशेषणत्वं निर्विशेषणत्वं वा यद् उपमेये प्रक्रान्तम् उपमाने तस्य अनिर्वाहादित्यर्थः ॥
३४५ (81) अत्र च्युतत्वमुपमानोपमेययोः साधारणो धर्मस्तस्यान्यरूपत्वं नपुंसकस्य उपमेयविशेषणत्वे पुंस्त्वं, तत उपमेयस्य साक्षाद्धर्मसमन्वयः, उपमानस्य तु प्रतीयमान इति शब्देन धर्मेण प्रक्रमे भग्नप्रक्रमत्वम् । यदि तु विपरिणामेन लिङ्गवचसोरपरस्यापि संबन्धस्तदा अभ्यासलक्षणो वाक्यभेदः स्यात् । द्वे वाक्ये स्यातामित्यर्थः । एवं च व्यवधानेन प्रकृतोऽर्थो न प्रतीयेत विपरिणामश्च शास्त्रीकाव्येषु न 'युक्तः 11 ३४६ ( 82 ) तद्विदां प्रसिद्धेन प्रकारेण ॥
३४८ (83) केवलस्येति, असमासस्थस्य । समासे तु असौ योग्यताद्यपि प्रतिपादयति ॥ तस्य चेति, साधर्म्यस्य ॥ तत्रेति, संभावनवाचकत्वे ॥
३४८-४९ (84) व्यर्थ एवेति । उत्प्रेक्षामात्रमेवात्रोचितं, न त्वर्थान्तरोपन्यासस्तत्समर्थनार्थ इति तात्पर्यम् । समासोक्तिदोषानाहसाधारणेति । मानः परिमाणमभिमानश्च । चिरयायिदिनो दीर्घाहा निदाघः ॥ यथा सहशविशेषणेति । रवेः करैः इति सदृशमनुकूलं विशेषणं, दिनश्रियास्तु 'विजृम्भिततापया' इत्यादि सदृशं विशेषणम् । व्यक्तेर्लिङ्गस्य विशेषः पुंस्त्वं
[83
माणिक्यचन्द्र
पृ.
४५९ (80) भग्नेति । उपमेयस्य विशेषणादिकमुपमाने चेन्न निर्व्यूढं तदा
क्रमभङ्गः ।
४५९-६० (81) अत्र च्युतत्वादिको धर्म उपमानोपमेययोः प्रत्येकमन्यलिङ्गवचन इति प्रक्रमभङ्गः । लिङ्गवचनविपरिणामेन यद्यपरस्यापि सम्बन्धः तदा व्यासरूपवाक्यभेदे वाक्यद्वयी । तथा सति प्रतीतिः व्यवधीयते, विपरिणामश्च साहित्येन स्यात् ।
४६० ( 82 ) न तथेति कोविदप्रसिद्धप्रका रेण ।
४६३ (83) केवलस्येति । असमासस्थस्य, समासस्थस्तु योग्यताद्यर्थवादी स्यात् । तस्य चेति । साधयस्य । अस्यामिति । उत्प्रेक्षायाम् । तत्रेति । सम्भावनाभिधाने ।
४६४-६५ (84) व्यर्थ एवेति । उत्प्रेक्षामात्रमेवात्र युक्तं न तत्समर्थकोऽर्थान्तरन्यासः । दिवाभीतश ब्दस्योलूकार्थत्वेन समुचितोपमाख्यायां नैतद्दोषावतारः । तस्येति उपमानविशेषस्य । 'स्पृशतीति । तापः खेदोऽपि । मानशब्दः परिमाणाभिमानयोः । चिरयायिदिनः दीर्घाहो निदाघः । सदृशेति । रवेः करैरिति सदृशमनुकूलं विशेषणम् । दिनश्रयास्तु तापयेति