________________
82]
KAVYAPRAKASA-SANKETA
सोमेश्वर
पृ.
३४१ (76) रूपकविधानच्छेदिनो बाधकस्य मञ्जीरशिञ्जितस्य यद्यपि साधकत्वं बाधकत्वं चोभयमपि अस्ति, तथापि 'बाधकत्वेनैव व्यपदेशा भवन्ति' इति न्यायात् बाधकत्वस्यैव प्राधान्यं, साधकत्वापेक्षया बलीयस्त्वेन उत्कटतया प्रतीतेः ॥ ३४२ ( 77 ) यद्यपि सावयवमिदं रूपकमखिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावात् तथाव्यपदेश इत्येकपदानुप्रवेशो न विरुद्धः ॥ त्रिप्रकारतयैवेति । एतेन - शब्दार्थवर्त्यलंकारा वाक्य एकप्रभाविनः ।
संकरो वैकवाक्यांशप्रवेशाद वाभिधीयते ॥ इति भट्टोद्भटोक्तः संकरः संसृष्टावन्तर्भावित इति त्रेधै
वायम् ।
३४२-४३ (78) ननु, पुनरुक्तवदाभासस्य तावच्छब्दस्य वैचित्र्यमुत्कटमिति उभयालंकारत्वमनपेक्ष्यैव शब्दालंकारत्वेनोक्तिः कृता, परंपरितरूपकादीनां तु किमर्थालंकारेषु पाठ इत्याह- अर्थस्य त्विति । वस्तुवृत्त्या तु भिन्नाः प्रतिपादयितुमुचिता इति
भावः ।
३४४ (79) 'अकुण्ठे 'ति । अत्र शृङ्गारप्रतिकूला वर्णाः । शृङ्गारे हि उपनागरिका वृत्तिरुचिता ॥
३४५ (80) अन्यरूपमिति । उपमानरूपमुपमेयरूपं वा ॥ तस्येति धर्मिणः ॥ प्रतीयमानेनापीति । शब्देन अनुपात्तेन उभयानुगमक्षमेण शब्दोपात्तच्युतत्वादि •
७. १०
माणिक्यचन्द्र
पृ.
४५४ (76) यद्यपि मञ्जीरशिक्षितं रूपकविधिच्छेदेन बाधकं पादानुकुल्यादुपमां प्रति साधकं च स्यात्, तथाऽपि बाधकत्वेन व्यपदेशः । 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायात् । साधकत्वापेक्षया बलिष्ठत्वेनोत्कया प्रतीतेर्बाधकत्वं प्रधानम् । ४५४ ( 77 ) शब्दार्थवृत्त्यलङ्कारस्तूद्भटोक्तः संसृष्टिरेवेति त्रिधैव ।
४५५-५६ ( 78 ) वस्तुतया परम्परितरूपकादेरुभयालङ्कारतया भिन्नत्वेन वक्तुं युक्तावर्थालङ्कारेषु तत्पाठोऽर्थस्योत्कटतया वैवश्यात् ॥
४५७ (79) अकुण्ठेति । शृङ्गारे छुपनागरिकी वृत्तियोंग्या |
४५९ (80) अन्यरूपमिति । उपमेयरूपमुपमानरूपं वा ॥ तस्येति । धर्मिणः । प्रतीयमानेन । शब्दानुक्तेनोभयानुगमक्षमेण शब्दोक्तसमानधर्मव्यतिरिक्तेन केना पीत्यर्थः ।