________________
.१०]
INTRODUCTION : APPENDIX A
[1
सोमेश्वर
माणिक्यचन्द्र
३३६ (72) निरपेक्षे॥ उपमोत्प्रेक्षे इति
विजातीये ॥ अत्रैव 'लिम्पतीव' इति 'वर्षतीव' इत्युत्प्रेक्षयोः सजातीययोः संसृष्टिः॥
४४७ (72) विधे इति । मिथो निरपेक्षे।
उपमोत्प्रेक्षे इति । उत्तरपूर्वार्धगे विजातीये । लिम्पतीवेति वर्षतीवेत्युत्प्रेक्षे सजातीये,
तयोरत्र संसृष्टिः॥ ४५० (72a) शब्दवच्छब्दालङ्कारयोः अत्रा
गाङ्गिभावाभावान्नरपेक्ष्ये संसप्टिरेवेत्याह
३३८ (72a) ननु, अत्र यमकचित्रयोः
शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेन अङ्गाङ्गिभावाभावात् संसृष्टिरेव पर
स्परनिरपेक्षेत्याह। ३३९-३४०. (73) एतयोरिति मुखबिम्बयोः।
'बिम्बं प्रसीदति' इत्येतच्च 'मुखं प्रसीदति' इति ॥ एकक्रियायोगे एकस्य प्रकृतत्वेऽन्यस्य अप्रकृतत्वे दीपकं तुल्ययोगितेति यदि द्वयोरपि प्रकृ
तत्यमेव वा ॥ ३४० (74) अत्र 'वक्रं शशीव' इत्युपमा।
ननु, 'वक्रमेव शशी' इति रूपकम् इत्याह-मुख्यतयेति । हासद्युतेः प्रकृतत्वात् ज्योत्स्नापेक्षया मुख्यता । सा च वक्त्रस्यैव अनुगुणेति उपमायाः साधकं प्रमाणम् ॥ न तथेति । शशिन्यपि हासद्युतेः शुक्लतया मनागानुकूल्यमस्तीति भावः॥
तस्या इति हासद्युतेः ॥ ३४०-४१ (75) बाधत्वे यथा- राजनारा
यणम्' इति । 'राजैव नारायणः' इति मयूरव्यंसकादित्वाद् रूपकसमासः, ततश्च उपमानस्य नारायणस्य प्राधान्यम् । तं प्रति लक्ष्मीप्रयुक्तमालिङ्गनं घटत इत्यालिङ्गनमुपमाया बाधकं प्रमाणम् । उपमायां हि उपमेयस्य राज्ञः प्राधान्यं, तत्रैव चित्तविश्रान्तेः। न च स्वभर्तृसदृशमन्यं प्रेयसी काचिद् आलिङ्गति ॥ सदृशमिति, राजानम् ॥ 11
४५१-५२ (73) एतयोरिति वक्रविम्बयोः ।
समुच्चयेति । बिम्बं मुखं चैतत्प्रसीदति इति भङ्गया एकस्य प्रकृतत्वेऽन्यस्याप्रकृतत्वे दीपकम् । द्वयोरप्रकृतत्वे तुल्य
योगिता। ४५२ (74) अत्र वक्त्रं शशीवेत्युपमा, न तु
वक्रमेव शशीति रूपकमित्याहमुख्यतयेति । हासद्युतिः प्रकतत्वान्मुख्या। सा च वक्रानुगुणेत्युपमासाधिका । तस्या इति । हासद्युतेः। एतस्याश्च शुक्लतया चन्द्रेऽपि किञ्चिदानुकूल्यमस्तीत्यतो न बाधकत्वम् ।
४५३ (75) वाधकत्वेनाह । राजेति । राजैव
नारायण इति रूपकसमासः। उपमानप्राधान्ये रूपकमुपमेयप्राधान्ये उपमेति सर्वत्र ज्ञेयम् । सदृशमिति । राजानम् । प्रेयसी लक्ष्मीः । निजपतितुल्यमन्यं कान्ता नालिङ्गतीत्यर्थः।