________________
80]
KÁVYAPRAKÁSA-SAMKKTA
[उ. १०
सोमेश्वर
माणिक्यचन्द्र
४४६ (70) चना इति च व्यतिरेकगी
शब्दौ । जय(यि)नीरिति व्यतिरेकोक्तिरिति अत्र व्यतिरेकनिमित्ततादृग्रूपोपाययोः भेदेऽप्यभेदातिशयोक्तिरपि । रसवदाद्यलङ्काराः प्रागुक्ताः । आशी स्तु नालङ्कारः प्रियोक्तिमात्रत्वात् । स्नेहात्मरत्याख्यभावत्वे भावध्वनित्वाद्वा।
३३५ (70) तोऽलंकारः । सोऽपि व्यतिरे-
कनिमित्तत्वेन अत्रोक्तः ॥ 'विरूपाक्षस्य' इति 'वामलोचनाः' इति च व्यतिरेकगर्भावेव वाचकी, 'जयिनीः' इति व्यतिरेकोक्तिः । रसभावतदाभासतत्पशमानां गुणीभूतव्यङ्गयावसररसवत्प्रेयऊर्जविसमाहितानि तथा भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः प्राक् प्रतिपादिताः ॥ आशीश्च अप्राप्तप्राप्तीच्छारूपमाशंसनप्रियोक्तिमात्र, अथवा स्नेहनिर्भरतया प्रतीयत इति
भावध्वनिरेव नालंकारः। ३३६ (71) तत्रैषा तिलतण्डुलन्यायेन
मिश्रत्वे शब्दालंकारगतत्वेना
र्थालंकारगतत्वेन उभयगतत्वेन च त्रेधेति त्रिविधां संसटिमाह-सेप्टेति ॥ यथासंभवमिति न सर्वेषां लक्षितानां, अपि तु केषांचित् , तत्रापि तेषां मध्ये क्वचिद् द्वयोः क्वचित् त्रिचतुराणामिति यथायोगम् । संसृष्टेश्च विषयभेदेन त्रिरूपत्वेऽपि संसृष्टया चैकरूपयेति प्रागुक्तं न विरुध्यते, नैरपेक्ष्यलक्षणस्य रूपस्याभिन्नत्वात् । वक्ष्यमाणसंकरस्तु स्वरूपेणैव नानात्वेनावभासत इति युक्तस्तत्र त्रिरूपताव्यवहारः:॥ सापि सजातीययोर्विजातीययोर्वालं
कारयोः स्यात् । ३३६ (72) यमकानुप्रासाविति विजा
तीयौ । अत्रैव 'लकलो-लकलो' इति तथा 'कलोल-कलोल' इति सजातीययोर्यमकयो[:] संसर्गः॥ तथाविधे परस्पर
४४६ (71) न सर्वेषामेवालङ्काराणां किन्तु
केषांचित् । तत्रापिक्वचिद् द्वयोः क्वचित्रयाणामित्यादि । शब्दार्थोभयालङ्कारविषयत्वेन त्रिरूपत्वेऽपि संसृष्टेरेकरूपत्वमेव मिथो नैरपेक्ष्यरूपस्वरूपस्यैकत्वात् । निरपेक्षतया इत्युक्त्या तिलतण्डुलन्यायेनालंकाराणां योगे संसृष्टिः । सङ्करस्तु स्वरूपेणैव नानात्वेनोक्तत्वात् त्रिधैव । तत्र नैरपेक्ष्याभावात् क्षीरनीरन्यायेनालङ्काराणां योगः।
४४९ (72) अत्र यमकानुप्रासाविति विजा
तीयालङ्कारसंसृष्टिर्यथा तथा लकलो लकलो इति कलोल कलोल इति च सजातीययमकालङ्कारसंसृष्टिरपि । तथा