________________
78]
KAVYAPRAKASA-SANKETA
सोमेश्वर
पृ.
३१४ (58) सकलरत्नसारतुल्यो बिम्बाधर इति तेषां बहुमानो वास्तव एवेति प्रतीयमानोपमापि ।
३१५ ( 59 ) धर्मिणि पर्वतादौ अयोगव्यवच्छेदोऽस्तित्वं वह्नयादेः साध्यम् |
व्यापकस्य
३१७ (60) 'पुष्टार्थपदं न प्रयोज्यम्' इति पुष्टार्थानि विशेषणान्युपात्तानि अत्रेति दोषत्यागमात्रं, न त्वलं - कार इत्याशङ्कयाह- यद्यपीति । ३१७ (61) न चैषेति । क्वचित्प्रकृतनिष्ठ साम्यं, यथा- सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ इति समुच्चितोपमायाम् ।
(62) उद्भटेन तु व्याजोक्तयनभिधानाद अत्रापि अप तिका ॥
३१८ (63) 'युवतिरेव कामास्त्रम् ।'
३१९-२० (61) अत्र तु रुद्रटोदाहृते 'काव्यत्वमनुप्रासादेव' इत्याह कोमलानुप्रासेति । यद्यपि अव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजने व्यङ्ग्यं तद् असुन्दरमपि गुणीभूतव्यङ्ग्यनिबन्धनं भवतीति प्राक्प्रतिपादितमेव, तथापि अलंकारचिन्तायाः प्रक्रान्तत्वात् तद् अपह्नुत्यैवाव
[ उ. १०
माणिक्यचन्द्र
पृ.
४१८-१९ (58) बिम्बाधरस्सकलरत्नेभ्योऽधिक इति व्यङ्ग्यव्यतिरेको ऽपि । अन्ये तु सकलरत्नसारतुल्योऽधर इति तेषां तत्र प्रीतिर्वास्तवीति व्यङ्गयोपमामाहुः ।
४२० ( 59 ) धर्मी शैलादिः, तत्रास्तित्वमयोगव्यवच्छेदः । व्यापकस्येति अग्न्यादेः ।
४२१ ( 60 ) ननु पुष्टार्थग्रहणाद्दोषत्यागमात्रमेतदित्याशङ्कयाह । यद्यपीति ।
४२२ (61) न चैषेति । अयं भावः- अपहृतौ किलोभयनिष्ठं साम्यं अत्र तु प्रकृतस्यैव सद्भावात्प्रकृतनिठमेव साम्यं,
"ये कालतां कुटिलतामिव न त्यजन्ति" इति समुच्चितोपमावत् अत्रापि प्रकृतनिष्ठमेव साम्यम् ।
(62) उद्भटमते व्याजोक्त्यभावादत्रापहुतिः
४२४ (63) युवतिरूपं कामास्त्रमिति वि
ग्रहः ।
४२५ (64) भामहोगटाद्याः । अव्यभिचारितया विकासादेर्नैरन्तर्येण करणमिहोपचारात्प्रयोजनं व्यङ्गयं तच्च गुणीभूततया महित्यत्रैवकारेण प्रतिपाद्यते । अस्म- न्मते काव्यलिङ्गमेव हेतुः । रुद्रटस्तु भिन्नमूचे ।