________________
उ. १० ]
INTRODUCTION APPENDIX A
सोमेश्वर
पृ.
३१२ (56) मुत्तरत्रापि । इह विशेष्यस्य शोभनत्वं प्रक्रान्तं, विशेषणस्य तु अशोभनत्वम् । 'नृपाङ्गनगतः खलः' इत्यत्र तु नृपाङ्गनगतत्वेन विशेषणस्य शोभनत्वं विशेष्यस्य खलत्वेन अशोभनत्वमिति विपर्ययात् प्रक्रमभङ्गो दोषः । न त्वत्र कश्चित् समुच्चीयमानः शोभनः, अन्यस्तु अशोभन इति सद- सद्योगो व्याख्येयः । तथा ह्यत्र शोभनस्य सतोऽशोभनत्वविवक्षा, 'दुर्वाराः स्मर' इत्यत्र तु अशोभनानामेवेति विवक्षितम् । अत एव 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण उपन्यस्तमिति अस्त्यनयोः प्रकारयोर्भेदः ।
३१२ ( 57 ) रुद्रटेन तु -
व्यधिकरणे वा यस्मिन् गुणक्रिये चैककालमेकस्मिन् । उपजायेते देशे समुच्चयः स्यात् तदान्योऽसौ ॥ 'धुनोति' इति । तत्र एकाधिकरणक्रिययोः च्चयः ॥ 'कृपाणे 'त्यादि कृपाण - पाणित्वं साधुवादश्च गुणौ, तयोः क्षितिसुरालयौ भिन्नौ देशौ ॥
समु
[77
माणिक्यचन्द्र
पृ.
४१५ (56) खलतया चासन् । अत्र शशी स्वयं सन् धूसरत्वेनासन् । कामिनीति सत् गलितयौवनत्वमसत् । एवमग्रेऽपि विशेष्यद्वारेण सत्ता विशेषणद्वारेणासत्तैकस्य वस्तुनः सर्वत्र ज्ञेया । इह विशेष्यस्य सत्त्वं विशेषणस्य चासत्त्वं प्रक्रान्तं, ततो नृपाङ्गणगत इतिविशेष्यतया सद्व्याख्येयं खल इति विशेषणतया चासत् । अन्यमताभिप्रायेण विशेषणविशेष्ययोरत्र वैपरीत्ये प्रक्रमभङ्गः । तथा नृपाङ्गणगतः खल इत्यसत् अन्ये तु सन्त इति समुच्चीयमानस्य सतस्तादृशेन सता योग इति व्याख्यायां तु सहचरभिन्नोऽर्थो दुष्ट इतिरूपः प्रक्रमभङ्गः । तथाऽत्र सत (?) एवसतोऽसत्त्वमेकस्यैव वस्तुन इति विवक्षितम् । एव चारुत्वेनान्तः प्रविष्टान्यपि राश्यादीनि शल्यानीति प्रकारेण व्यथाहेतुत्वेनोक्तानि । 'दुवराः स्मरेत्यत्र तु कथं सोढव्य इति सर्वथा दुष्टत्वाभिप्रायेणोपन्यास इति विवेकः ।
अत
४१६-१७ ( 57 ) धुनोतीत्यत्रैकाधिकरण्यं क्रिययोः । कृपाणपाणित्वसाधुत्वादौ सिद्धरूपत्वाणौ तयोः क्षितिस्स्वर्गश्च भिन्नो देशः । न वाच्यमिति यथोक्तं रुद्रटेन ।