________________
उ. १० ]
INTRODUCTION APPENDIX A
सोमेश्वर
पृ.
३०६ ( 49 ) 'मृगेति । तया हि प्राग्मोहितः किमपि नाशासीत् । 'सुहृदा' इति । अकल्याणमित्रं हि तस्यासीत् । अत्राशोभनावपि शोभनावुक्तौ । विना शब्दमन्तरेणापि विनार्थविवक्षा दृश्यते यथा सहोतौ सहार्थविवक्षा । तेन - 'निरर्थकं जन्मगता नलिन्या यया न दृष्टं तुहिनांशुविम्वम् । उत्पत्तिरिन्दोरपि
निष्फलैव
दृष्टा विनिद्रा नलिनी न येन ॥ इत्यादी विनोक्तिरेव तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतिः ।
३०७ ( 50 ) न चेयं सुन्दरवस्तुस्वभाववर्णनात् स्वभावोक्तिः, तस्या लौकिकवस्तुगतसूक्ष्मधर्मवर्णने सर्वसाधारण्येन हृदय संवादसंभवात् इह तु लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतिः नापि अद्भुतपदार्थदर्शनाद् अतीतानागतप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदं लिङ्गलिङ्गिभावेनाप्रतीतेः ॥ ३०८ ( 51 ) अत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्च तुर्थपादार्थहेतुत्वेन उक्तः । अत्र चानुमानसद्भावेऽपि न तेन सह वाक्यार्थीभूतस्य हेतोः संसृष्टिव्यवहारः, उभयोरपि
भिन्नदेशत्वाभावात् । अनुमानं तु हेतोरुत्थापकतया उपकारकमिति भवत्यङ्गाङ्गिसंकरः, किं तु हेतुलक्षणमत्रास्तीति एतदभिसंधाय हेतोरिदमुदाहृतम् । अनमनं ापराधद्वयस्य जनकं, तदेव चापराधतया परिणतं, यथा घटकारणं मृद् घटरूपतया परिणमति ।
[75
माणिक्यचन्द्र
पृ.
४०६ ( 49 ) मृगेति । तथा हि प्रायोहितः किमपि नाशासीत् । सुहृदेति कूटमित्रं स तस्यासीत् । विनाशब्दं विनाऽपि विनार्थविवक्षा स्यात् यथा सहोतौ सहार्थ विवक्षा । तेन
" निरर्थकं जन्म गतं नलिन्या या न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव
विनिद्रा नलिनी न येन" ॥ इत्यादी विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनी जन्मनोऽशोभनत्वप्रतीतेः ।
४०८ ( 50 ) स्वभावोक्तौ कविप्रतिभाविशेतिलौकिकवस्तु स्वभाववर्णने सर्वसाधारण्येन चित्तसंवादसम्भवोऽत्र तु लोकोत्तरवस्तूनां स्फुटत्वेन तटस्थतया प्रतीतिरिति चारुवस्तुस्वभाववर्णनान्तैषा स्वभावोक्तिः । न चेदमद्भुतपदार्थदर्शनाद्भुतभाविप्रत्यक्षत्वप्रतीतौ काव्यलिङ्गम्, लिङ्गलिङ्गिभावेनाऽप्रतीतेः । ४०९ ( 51 ) अत्र पादत्रयार्थोऽनेकवाक्यारूपोऽन्त्यपादार्थस्य हेतुः । तथा वपुःप्रादुर्भावादित्यु
तयाऽनुमानमप्यत्रास्ति, परं तेन सह भिन्नदेशत्वाभावाद्वाक्यार्थीभूतस्य हेतोर्न संसृष्टिः, किन्त्वनुमानस्यो - स्थापकतया वाक्यार्थीभूतहेतुं प्रत्यङ्गभावे सङ्करः । सम्प्रति त्वां नमन्मुक्तः सन् अग्रेऽपि भाविनि काले निस्तनुस्सननतिमानित्यर्थः । यथा घटकारणं मृद्घटरूपेण परिणमति तथाऽपराधद्वयस्य जनकमनमनमपराधतयाऽत्र परिणतम् ।