________________
उ. १०
INTRODUCTION : APPENDIX A
[78
सोमेश्वर
माणिक्यचन्द्र
३९५ (42) अत्र नलिन्यजिनी पद्मिन्या
ख्या स्त्री च । तथा घातादिहेत्वभावेऽपि रुगादिकार्यमुतं, तत्र वियोगित्वं कारणं गम्यमतोऽनुक्तनिमित्तेयम् । उक्तनिमित्ताऽप्येषा यथा"अनासवाख्यं करणं मदस्य" अत्र यौवनं निमित्तम् । मत्तताहर्षवाचकत्वान्मदस्य द्वैविध्येऽप्यतिशयोक्त्या ह्यभेदः । अतिशयोक्त्यनुप्राणिता चैषा ज्ञेया। एकगुणहानौ विशेषोक्तिरित्येके । अरोपितवैशिष्टयं रूपकमेवान्ये इमां मन्यन्ते।
२९५-९६(41)-स्तदपवादत्वात् ॥ एवं विशे
षोक्तो कार्यभावेन कारणसत्ता एव बाध्यमानत्वमुन्नेयम् । येन सापि अन्योन्यबाधत्वानुप्राणि
ताद् विरोधाद् भिद्यते । २९६ (42) अत्र कुसुमितलताहननादीनां
कारणानामभावेऽपि रुग्धारणादीनि कार्याणि प्रकाशितानि । तत्र विरहित्वलक्षणं निमित्तं गम्यमानम् ॥ उक्तनिमित्ता यथा-असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ क्यः प्रपेदे ॥ अत्र द्वितीयपादे मदस्य यद् आसपाख्यं करणं प्रसिद्धं तदभावेऽपि यौवनहेतुकत्वेन उपनिवन्ध उक्तः। 'मदो मत्तता हर्षश्चेति' । मदस्य द्वैविध्येऽपि अभेदाध्यवसायकत्वमिति अतिशयोक्त्यनुप्राणिता विभावना । 'असंभृतं मण्डनम्' इति 'कामस्य पुष्पव्यतिरि तमस्त्रम्' इत्यत्र च संभरणस्य पुष्पाणां च मण्डनमस्त्रं च प्रति कारणत्वात् तदभावे विभावना॥ 'एकगुणहानौ विशेषोक्तिरियम्' इति वामनीयाः । 'रूपकमेव अधिरोपितवैशिष्ट्यम्' इति अन्ये । 'आरोग्यमाणस्य मण्डनादेः प्रकृते वयसि संभवात्
परिणाम' इति तु अद्यतनाः॥ २९७ (43) 'स एकः' इति । अत्र तनु-
हरणे कारणे सत्यपि बलहरणस्य कार्यस्य अनुक्तौ निमित्तमचिन्तनीयमेव । प्रतीत्यगोचरत्वात् । 'अतैलपूराः सुर. तप्रदीपाः' इत्यादि तु रूपकम् । 10
३९६-९७(43) अत्र तनुहरणस्य हेतोः फलं
बलहरणं परं नोक्तम् । निमित्तं वा प्रतीत्यगोचरत्वादचिन्त्यम् । "एकगुणहानिकल्पनायां साम्यदाढर्य विशेषोक्तिः” इति यदन्यैरस्या लक्षणं कृतं साऽस्म