________________
72]
KAVYAPRAKABA-SAMKHTA
[उ. १०
सोमेश्वर
माणिक्यचन्द्र
२९५-९६ (41) म्यते, न सर्वैरिति क्रिया-
पदस्थाने कारणग्रहणं कृतम्, सामान्येन विशेषमनपेक्ष्य फलप्रकाशनमिति कार्यस्य कविना प्रतिपादनं, न तु भवनकारणमन्तरेण कार्योत्पत्तेरसंभवाद् ॥ इह कारणान्वयव्यतिरेकानुविधानात् कार्यस्य कारणमन्तरेण असंभवः। यदि तु कयाचिद् भङ्गया तथाभावोपनिबन्धः, तदा विभावना। सा च भङ्गिः प्रसिद्धतरकारणानुपलब्धिः अप्रसिद्धं तु कारणं वस्तुतोऽस्त्येव । अस्याश्व न विरोधरूपत्वं, विरोधे द्वयोरपि समानवलयोःपरस्परबाधात् । अत्र तु कार्योत्पत्तिरेव कारणप्रतिषेधेन बाध्यमाना प्रतिभाति, न तु कारणप्रतिषेधस्य कार्योत्पत्त्यापि बाधः। कारणप्रतिषेधस्य हि बाधः प्रतिभासमानोऽपि ज्ञप्त्यपेक्षो, शप्तिश्च उत्पत्यपेक्षया दवीयसी न विभावनां प्रयोजयति ॥ 'सप्त्यपेक्ष' इति यथा हि कार्यमुत्पद्यमानमेव कारणप्रतिषेधेन बाध्यत इति भवत्युत्पत्त्यपेक्षस्तत्र बाधस्तथा नोत्पद्यमान एव कारणप्रतिषेधः कार्योत्पत्त्यापि बाध्यते, अपि तु उत्पन्नस्य तस्य बाधस्तया शाप्यत इति कारणप्रतिषेधवाधो ज्ञप्त्यपेक्ष एव ॥ 'ज्ञप्तिश्च' इति कारणप्रतिषेधबाधज्ञानं च । 'दवीयसी' इति पश्चाद्भावित्वेन ॥भवतु वात्रापि सामान्येन परस्परं बाधस्तथापि न विरोधरूपत्वं हेतुफलभावं विशेषमाश्रित्य प्रवर्तनाद् अस्या
३९४-९५ (41) विना, कार्योत्पत्त्यसंभवात् ।
अत्र प्रसिद्धतरहेत्वनुपलब्धेहेत्वभावः, अप्रसिद्धस्तु हेतुर्वस्तुतोऽस्त्येव । अत एव विशिष्टतया प्रसिद्धतरहेत्वनुपलब्धिरूपया कार्यस्य भावना पर्यालोचना विभावना, हेतुनिषेधेन चेहोपाक्रान्तत्वाद्वलवता कार्यमेव बाध्यत्वेन प्रतीयते न तु तेन हेतुनिषेध इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकारानेदः। हेतुनिषेधबाधप्रतीतिस्तु शत्यपेक्षा ज्ञप्तिस्तूत्पत्त्यपेक्षया नासन्नेति न विभावनाप्रयोजिका । अयं भावःयथा कार्य भवदेव हेतुनिषेधेन बाध्यत इति भवति तत्र भवनापेक्षो बाधः। तथाभवन्नेव हेतुनिषेधः कार्योद्भवनेनापि न बाध्यते किन्तु भूतस्य तस्य बाधः तथा ज्ञाप्यते इति हेतुनिषेधवाधो शप्त्यपेक्ष एवेति ज्ञप्तिर्भवनापेक्षया पश्चाद्भावित्वेनानासन्नेति । यद्वा सामान्येन मिथो वाधे सत्यपि हेतुफलभावविशेषेणास्याविरोधाद्वेदः।