SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [४ ० उल्लासः ] काव्यप्रकाशः | as किरतीति किरणस्य साध्यमानत्वं निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च । तत्रापि क्तमत्ययेनातीतत्वं द्योत्यते । यथा वा खिन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १०१ ॥ खिन्निति न तु लिखतीति, तथास्त इति नत्वासित इति अपि तु प्रसादपर्यन्तमास्त इति, भूमिमिति न तु भूमाविति न हि "बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् । संबैन्धस्य यथा गाँमा रुम्हि गामे वसामि णअरहिं ण आणामि । अरिआणं पणो हरेमि जा होमि सा होमि ॥ १०२ ॥ अत्र नागरिकाणामिति षष्ठयाः । 'रमणीयः क्षत्रियकुमार आसीद्' इति कालस्य । एषा हि माहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः । वचनस्य यथा --- ७५ गुणगहणणं वाणुकंठाण तस्स पेम्मस्स । तण भणियाण सुन्दर एरिसअं जाअमवसाणम् ||१०३ ॥ चमत्कारकारि परिनिष्पत्तिं यावत्साध्यत्वेनोक्तौ प्रस्तुतस्यार्थस्य दुर्बल: परिपोषः, ततः सिद्धत्वेनाभिधानं निष्पन्नत्वाच्च प्रकृतार्थं पुष्णाति ॥ प्रसादपर्यन्तमास्त इत्यर्थो 'लिखन् ' इत्यस्य भवति, न तु 'लिखति ' इत्यस्य । सर्वत्र सुबादीनामभिप्राय विशेषाभिव्यञ्जकत्वम् । स तु अभिव्यक्तोऽ भिमायो यथास्वं विभावादिरूपताद्वारेण रसादीन् व्यनक्ति ॥ 5 10 15 20 ग्रामरुहा' प्रत्यन्तग्रामजाता।। षष्ठया इति । यदि हि 'नायरिअपइणो' 25 इत्युच्यते तदा संबन्धमात्रं स्यात् । यदा तु साक्षात् षट्टी तदा 'नागरिकाणां दक्षस्त्रीणां ये पतयो रागभरतरलितास्तानपि हरामि' इति व्यज्यते । आसीदित्यनातीतकालनिर्देशाद् दाशरथेः कथाशेषत्वं व्यज्यते ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy