________________
___ काव्यादर्शनामसंकेतसमेतः [४० उल्लासः ] अत्र "नंदीकूले ळतागहने कृतसंकेतममाप्तं गृहमवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदोगमनाय द्वाराघातव्याजेन बुदिपूर्वकन्याकुळया त्वया घटः स्फोटित इति मया चेतितं तत्किमिति नावसिपि तत्समीहितसिद्धये बनाई ते श्वश्रुनिकटे सर्व समर्थयिष्य इति द्वारस्पैशव्याजेनेत्यपहनुत्या वस्तु ।
जोहाए महुरसेण अ""वियण्णतारुण्णसुअमणा सा। वुढावि णवोढव्व परवहुआ अहह हरइ तुह हिअअम् ॥९३।। __ अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः पैरवधूपदप्रकाश्यः । एषु कविनिबद्धवक्तृमौढोक्तिमात्रनिष्पन्नशरीरः । वाक्यप्रकाश्ये 10 तु पूर्वमुदाहृतम् । शब्दार्थोभयशक्त्युद्भवस्तु पैदपकाश्यो न भवतीति पचत्रिंशद् भेदा।।
प्रवन्धेऽप्यर्थशक्तिभूः॥४२॥ यथा गृध्रगोमायुसंवादादौ । तथा चअलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ॥१४॥
न चेह जीवितः कश्चित्काइधर्ममुपागतः ॥९५|| इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् ।
बहुविघ्नो मुहतोऽयं जोवेदपि कदाचन ॥९६॥ . विभिन्नः ।' स्पर्शव्याजेनेत्यत्र व्याजपदेऽपह्नुतिः । कविना या निबद्धा वक्त्री 20 सखी तत्पौडोक्त्या पQ ते बोधयिष्ये' इति वस्तु ध्वनति ॥
'ज्योत्स्नया मधुरसेन च वितीर्णतारुण्या उत्सुकमना वृदापि नवोढेव हरति' इत्युत्सुकयति । अत्र कविनिवद्धा या विदग्धा वक्त्री तत्पौढोक्तिनिष्पन्नेन काव्यलिङ्गेनार्थशक्तिमूलतया परवधूपदद्योत्यः प्रतिषेध इवेष्टस्येति निषेधरूप आक्षेपालंकारो व्यायः ॥
प्रबन्धेऽपीति । विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्ययभेदे अर्थशक्तिमूला द्वादश भेदाः प्रबन्धेऽपि निमित्तभूते व्यञ्जके सति व्यङ्ग्यतया ज्ञेयाः । तत्रायः स्वतःसंभवी कविप्रौढोक्तिनिष्पन्नस्तन्निबद्धवक्तृमौढोक्तिकृतशरीरो वा वस्तु वालंकारो वासौ प्रत्येकं वस्त्वलंकार व्यत्रक इति द्वादश भेदाः ॥
15
25