________________
ચૂંટ
[ ४० उल्लासः ]
काव्यादर्शन | मसंकेतसमेत:
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥७७॥ (३) अत्र मीताननेति । एतेन हि नीचैः शंसनविधानस्य युक्तता गम्यते । भावादीनां पदमेकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाहयते ।
रुधिरविसर मसाधित करवालकरालरुचिरभुजपरिघः ।
झटिति भ्रुकुटिविटङ्कितळळा पट्टो विभासि नृपभीमः ॥७८॥ (४) aa भीषणीयस्य भीमसेन उपमानम् ।
भुक्तिमुक्तिदेकान्तसमादेशनतत्परः ।
ata नानन्दनियैन्दं विदधाति सदागमः ॥ ७९ ॥ ( ५ ) काचित्संकेतदायिनमेवं मुख्यया नृत्यया शंसति । सायं स्नानमुपासितं मलयजेनाङ्गं समालिङ्गितं यातोऽस्वाचक मौलिमम्बरम णिर्विश्रब्धमत्रागतिः ।
तव सौकुमार्यमभितः कान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ||८०||(६) अत्र वस्तुना कृतपरपुरुषपरिचया स्नोंतासीति वस्त्वधुनापदधत्यं व्यष्यते ।
भीताननेति पदं व्यञ्जकम् ॥ युक्ततेति भयस्य अकृत्रिमत्व प्रकाशनात् || भावादीनामिति भावतदाभासभावशान्तिभावोदयादीनाम् ॥
5
10
15
6
तस्यैव लक्ष्यक्रमव्यङ्गयभेदे शब्दशक्तिमूलौ द्वौ अलंकारवस्तुध्वनी । क्रमाद् 20 यथा' रुधिर 'इति । विङ्कितं संबद्धम् || 'उपमानम्' इति । भीम इति पदं वर्णनीयसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया प्रकृतामकृतयोः साभ्यं प्रतिपादयतीति उपमालंकारो व्यङ्गयः ।। शब्दशक्तिमूलानुरणनरूपो वस्तुध्वनिः पदप्रकाशो, यथा 'भुक्ति' इति । भुक्तिः कान्तोपभोगोऽपि मुक्तिरुद्वेगव्यापारादपि । एकान्तः संकेतस्थानमपि । सतः सुन्दरस्य आगमनं शोभन आगमश्च । अत्र काचित् 25. संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति वस्तु सदागमपदेन प्रकाश्यते । अत्र अर्थयोर्वैसदृश्याद् नोपमा ॥ अर्थशक्त्युद्भवे प्रभेदे स्वतः संभविना वस्तुना वस्तुव्ययत्वे पदप्रकाशता, यथा 'सायम्' इति । अत्र 'अधुना' इति पदं वस्तुस्वभावं स्वतःसंभावितशरीरार्थशक्त्या नायिकायाः संभोगवेदरूपं वस्तुमात्रं ध्वनति ॥