________________
४४.० उल्लास ]
काव्यप्रकाशः । वोदिसंक्रमितवाच्याः। खलववहारा दीसन्ति दारुणा जैई वि तह वि धीराणम् । हिअवैवंसबहुमआ णहु वैवसाआ विमुज्यन्ति ॥७५।। (२) अत्र विमुग्रन्तीति।
कावण्यं तदसौ कान्तिस्तद्रूपं स वचाक्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥७६॥ अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते । यथा वामुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि । 'हृदयवयस्यबहुमता न व्यवसाया विमुह्यन्ति ।' विमुह्यन्तीति व्यवसायानामचेतनत्वेन 10 एतत्पदमसंभवत्स्वाथै बाधितमोहात्मकमुख्यार्थमनुपपद्यमानत्वादेव अत्यन्ततिरस्कृतवाच्यं विसंस्थुलत्वादिभवनसादृश्या व्यवसायांल्लक्षयत् प्रेक्ष्यपूर्वकारित्वादिधर्मान्तरं ध्वनति । प्रसिद्धं चैतल्लक्ष्येषु, यथा वाल्मीके हैमन्तवर्णने रामस्यौक्तौ
रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः ।
निःश्वासान्ध इवादशश्चन्द्रमा न प्रकाशति ।। 'अन्धः' इति उपसंहतदृष्टिः ॥ ननु, जन्मान्धस्य दृष्टयुपसंहारो नास्ति । नैवम् , जातान्धस्यापि गर्भ दृष्टथुपघातात् । ततोऽन्धशब्दो बाधितमुख्यार्थोऽनुपपद्यमानत्वाद् अत्यन्ततिरस्कृतवाच्योऽत्र पदार्थस्फुटीकरणाशक्तत्व नष्टदृष्टिगतं सादृश्यं निमित्तोकृत्यादर्श लक्षयन्नसाधारणविच्छायित्वानुपयोगित्वादि. धर्मजातमसंख्यं प्रयोजनं व्यनक्ति । 'अन्धोऽयं पुरोऽपि न पश्यति' इत्यत्र तु 20 अस्ति तिरस्कारो, न त्वत्यन्तम् । इह तु आदर्शस्य आन्ध्यमारोप्यमाणमपि न सह्यम् ॥ विवक्षितान्यपरवाच्यस्यालक्ष्यक्रपयायो यथा 'लावण्यम्' इति । लावण्यं संस्थानमुग्धिमा, अवयवव्यतिरिक्तं धर्मान्तरमेव । कान्तिः प्रमा। तदाडादकारि लावण्यम् । असावपि आप्यायिका कान्तिः । तद्रूपं वचसोऽप्यगोचरम् । स वचः. . क्रमः सातिशयविभ्रमैकास्पदमिति लावण्यादिगतस्वसंवेद्यानन्तगुणगणस्मारकाणि 25 तदादिपदानि सातिशयविप्रलम्भावेगविभावतां व्यञ्जन्ति । यद्यपि सर्वेणानेन वाक्येन विप्रलम्भरसो व्यज्यते, तथापि स्मरणोल्लिखितं तल्लावण्यादि सातिशयं विभावत्वमेतीति पदप्रकाशता ।।
15