SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [४ प० उल्लासः] वाक्ये व्युत्था द्वयुत्य इति । शब्दार्थोभयशक्तिमयः। . पदेऽप्यन्ये अपिशब्दाक्येिऽपि । एकावयवस्थितेन भूषणेन कामिनीव पदधोत्येन व्यङ्गयेन वाक्यव्यङ्गयापि भारती भासते । तत्र 5 पदप्रकाश्यत्वे क्रमेणोदाहरणानियस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा । अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥७४॥ (१) अत्र द्वितीयमित्रादिशब्दा आश्वस्त नियन्त्रणीयत्वस्नेहपाद्वयुत्थ इति । काव्यरूपसमुदायापेक्षया द्वाभ्यां शब्दार्थांभ्यां उत्था उत्थानं 10 यस्य स तथा । वाक्य एव द्वयुत्यो, न पदे, यथा उदाहृतं 'अतन्द्र' इति । अन्य इति । द्वयुत्यापेक्षया। तेनार्थान्तरसंक्रमितवाच्यादयः सप्तदश भेदाः पदेऽपि स्युः। तथा हि अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेत्यविवक्षितवाच्यस्य द्वौ भेदौ, असंलक्ष्यक्रमव्यायो लक्ष्यक्रमव्यङ्ग्यश्चेति विवक्षितान्यपरवाच्यस्यापि द्वौ । असंलक्ष्यक्रमोऽनन्तभेदोऽप्येकः । क्रमव्यङ्गये तु शब्दशक्तिमूली द्वौ । एवं 15 पश्च । अर्थशक्तिमूलाद्वा दशेति पदप्रकाशाः॥ ननु, 'इदमुत्तममतिशयिनि 'इत्यादौ समुदाय एव काव्यविशेषो ध्वनिः, तत्कथं तस्य पदप्रकाशता ? काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः संदर्भविशेषः, काव्यविशेषत्वं च न पदप्रकाशत्वे उपपद्यते, पदानां स्मारकत्वेनावाचकत्वाद्, इत्याशङ्कयाह-एकावयवेति । यदुक्तम्-. विच्छित्तिशोभिनैकेन भूषणेनैव कामिनी । पदधोत्येन सुकवेर्ध्वनिना भाति भारती ॥ यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्याथै प्रति न वाचकत्वं, तशाच आचाररूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां मागेषु व्यवस्थाप्यते, तथा प्रकृतेऽपि पदानां व्वजकत्वमुखेन ध्वनिव्यवहारः ॥ न च 25 ध्वनिव्यवहारे वाचकत्वं प्रयोजक, व्यञ्जकत्वेन तस्य व्यवस्थानात् ॥ मित्रादि. शब्दा इति । अनुपयोगात्मिका मुख्यार्थवाधास्तीति लक्षणामूलत्वं शुदस्यार्थस्य अविवक्षितत्वाद् अविवक्षितवाच्यत्वम् । ततो द्वितीयमित्रादिशब्दा आश्वस्तत्वादि लक्षयन्तो धर्मान्तराण्यन्यशब्दावाच्यान्यादरास्पदत्वादीनि व्यजन्ति । 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy