________________
कान्यप्रकाशः।
10
[४१० उल्लास ] अत्रीपमा व्याया।
मेदा अष्टादशास्य तत् ॥४१॥ 'अस्येति ध्वनेः। ननु रसादीनां बभेदत्वे कथमष्टादशेत्याहरसादीनामनन्तत्वाद् भेद एको हि गण्यते।
5 अनन्तत्वादिति। तथा हि। नव रसाः। तत्र शुधारस्य द्वौ भेदौ। संभोगो विमलम्भश्च । संभोगस्यापि परस्परावलोकनालिजनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यास्तमयचन्द्रोदयषऋतुवर्णनादयो बहवो भेदाः। विमलम्भस्याभिलाषादय उक्ताः । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् । तत्रापि देशकालावस्थीदिभेदः । इत्येकस्यैव रसस्यानन्त्यम् । का गणनों त्वन्येषाम् । असंलक्ष्यक्रमत्वं तु
सामान्यमाश्रित्य रसादिध्वनिरेकै भेद एव गण्यते । तारका कनीनिकापि । श्यामा रात्रिः। कान्ता च । अत्र 'चन्द्र' इति तारका' इति च शब्दो व्यञ्जकः ।। 'समुद्दीपित' इति 'सानन्दम्' इति चार्थोऽपि व्यजक इति 15 शब्दार्थयोरुभयोः शक्त्या रात्रियोषितोः प्रकताकृतयोरुपमा वाक्ये व्याया॥
मेदा इति । तथा हि लक्षणामूलस्याविवक्षितवाच्यस्यान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यौ द्वौ भेदौ। अमिधामलस्य तु विवक्षितान्यपरवाच्यस्यालक्ष्यक्रमो रसादिध्वनिरेकः, लक्ष्यक्रमस्तु अनुरणनरूपः शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विधा । तत्राघोऽलंकारवस्तुव्यजकत्वेन द्विधा, द्वितीयोऽपि स्व- 20 तःसंभवी कविप्रौढोक्तिकृतशरीरः कविनिबद्धवक्तपौढोक्तिकृतशरीरश्चेति त्रिधा। त्रयोऽपि प्रत्येकं व्यायव्यअकयोर्वस्त्वलंकाररूपत्वाच्चतुर्विधा इति द्वादशभेदोअर्थशक्तिमूलः । उभयशक्तिमूलस्त्वेकः, इत्यष्टादशभेदा वाक्यप्रकाशाः । तयोरपीति । संभोगविपळम्भयोः। तथा हि सुखमयस्त्रीपुंसमाल्यर्तुहादिविभावः पुलकस्वेदकम्पाश्रुमाल्यादिसम्यग्निवेशनकटाक्षचाटुप्रभृतिवाचिककायिकन्यापार- 25 लक्षणानुभावो धृतिमतिलज्जादिव्यभिचारी संभोगः । मुखलब्धस्त्रीपुंसमाल्यादिविभावोजनेत्रक्षामतावचोवक्रतासंतापदीनसंचरणमलापलेखलेखमवाचनसंदेशदानस्नेहनिवेदनमरणोधमाधनुभावश्चिन्ताशङ्काग्लानिनिद्रासप्तमवोधास्याश्रमस्वमजडताव्याध्यपस्मारमरणादिव्यभिचारी विप्रलम्भः ॥४१॥