SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः ४५० उल्लासः ] अत्र 'ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते । धन्यासि या कथयसि प्रियसङ्गमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीचीं पति"" प्रणिहितश्च करः पियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥२॥ अत्र त्वमधन्याहं तु धन्येति व्यतिरेकोऽलंकारः । दन्धिगन्धगजकुम्भकपाटकूट संक्रान्तनिघ्नघनशोणितशोणशोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥६३|| - 10 अत्रोपमालंकारेण सकलरिपुबलक्षयः क्षणाकरिष्यत इति वस्तु । गाढकान्तदशनक्षतव्यथासंकटादरिवधूननस्य यः। "ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम् ॥६४॥ अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता, मम क्षत्याप्यन्यस्य क्षतिनि'वर्ततामिति 15 तबुदिरुत्भेक्ष्यते इति । इत्युत्प्रेक्षा च । एपदाहरणेषु स्वतःसंभवी व्याकः । कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुत्वा कीति विबुधरमणीगीयमानां यदीयाम् । . स्रस्तापागाः सरसबिसिनीकाण्डसंजातशेङ्का । 20 दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥६५॥ अत्र वस्तुना येषामप्याधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते । जाता ।' अत्र वाक्यार्थेन वस्तुमात्ररूपेण धनसमृद्धिमयत्वेन ममैव भोग्य इति वस्तु व्यज्यते । अहं तु धन्येति । उपमानोपमेयभावपतीतौ निधुवनविलासोत्क- 25 दिभिनन्दनीयत्वेनाधिक्यम् ॥ उपमालंकारेणेति, सकलवाक्यवाच्येन ॥ तद्बुद्धिरिति, राजबुद्धिः॥ प्रथमशिखरे प्रधानशिखरे येषां दिग्मातङ्गानामर्थाधिगमो नास्ति, कीर्तिरित्युल्लेखेन ॥ ... .
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy