________________
5
(४० उल्लासः ]
काव्यप्रकाशः। उल्लास्य कृष्णकरवालनवाम्बुवाहं देवेन येन जरठोजितगजितेन । निर्वापितः सकळ एव रणे रिपूणां धाराजलैस्त्रिजगतिज्वलितः प्रतापः ॥५५॥
अत्र वाक्यस्यासंबद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदित्यपाकरणिकपाकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारा
व्यायः। नुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयो रसः काव्यव्यापारैकगोचरो रसध्वनिरेव || ' उल्लास्येति । शत्रुविषये संतापकारिणी प्रसिद्धिः प्रतापः। अत्र गर्जितादयः शब्दाः प्रकरणानियन्त्रिताभिधानशक्तय एकमेवार्थमभिधाय कृतकृत्या एव । तदनन्तरं त्वर्थावगतिर्श्वननव्यापारादेव शब्दशक्तिमूलात् । तत्र केचिद् मन्यन्ते 'यत एतेषां शब्दानां पूर्वपर्थान्तरं चित्रं दृष्ट, ततस्तथाविधेऽर्था- 10 न्तरेऽदृष्टतदभिधाशक्तेरेव प्रतिपत्तुनियन्त्रिताभिधाशक्तिकेभ्य एव तेभ्यः पतिपत्तियननव्यापारादेवेति शब्दशक्तिमूलत्वं च व्यङ्गयत्वं च'इत्यविरुद्धम् । अन्ये तु 'अर्थसामर्थन सादृश्यात्मकेन द्वितीयाऽभिधैव प्रतिप्रस्तुयते. ततश्च द्वितीयोऽ. योऽभिधीयत एक, न ध्वन्यते । तदनन्तरं तु तस्य द्वितीयस्यार्थस्य प्रतिपन्नस्य प्रथमार्थन पाकरणिकेन साकं या रूपणा सा तावद् भात्येव । न चान्यतः ॥ 15 शब्दादिति सा ध्वननव्यापारात् । तत्राभिधाशक्तेः कस्याश्चिदप्यनाशङ्कनीयत्वादिति प्रकृतापकृतयोर्वाक्यार्थयोः साम्यं ध्वन्यत इत्यलंकारध्वनिरित्याह - वाक्यस्या. संबद्धार्थाभिधायकवमिति । यथा वा 'गावो वः पाव[मा]ना[:] परमपरिमितां प्रीति मुत्पादयन्तु' इत्यादौ गावो रश्मयः सुरमय इवेति साम्यं ध्वन्यते । सुरभिवृत्ता न्तस्तूच्यत एव । पदैहि प्रकरणनियन्त्रितैः पदार्था रश्मिसमुचिता उच्यन्ते । 20 ततः प्रकरणस्य शब्दशक्या वाक्योपपत्तिसहायया न्यकरणं जायते, तेन सुरभिवृत्तान्तोचितवाक्यार्थपतिपत्तिस्ततो द्वयोर्वाक्यार्थयोरुपमानोपमेयभावो धननव्यापारात् । यदा तु पदसमूह एव शब्दशक्त्या सुरभिवृत्तान्तं ध्वनतीति पक्षास्तदा वस्तुध्वनिरेव ॥
ननु, यदि शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स ध्वनेविषयस्तर्हि श्लेषस्य 25 विषयो नास्ति । नैवम्, यत्र सामाक्षिप्त एवालंकारो न वस्तुमात्र शब्दशक्त्या प्रकाशते स शब्दशक्त्युद्भवो ध्वनिः, वस्तुद्वये च शब्दशक्त्या प्रकाशमाने श्लेषः । अत्र चार्थाक्षिप्तः श्लेषो न शब्दोपारूढ इत्यनुस्वानोपमव्यङ्गये ध्वनौ न श्लेषविष