________________
५८
काव्यादर्शनामसंकेतसमेतः [ ४ ० उल्लासः ]
भावस्थितिस्तूक्तौ । उदाहृता च 'जीने कोपपराङ्मुखी' इत्यादिना । मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
ते भावप्रशान्त्यादयः । अङ्गित्वं राजानुगत विवाहप्रवृत्तभृत्यवत् । अनुस्वानाभसंलक्ष्यक्रमव्यङ्गयस्थितिस्तु यः ॥ ३७॥ शब्दार्थो भयशक्त्युत्थ स्त्रिधा स कथितो ध्वनिः ।
शब्दशक्तिमूलानुरणनरूपव्यङ्गयो ऽर्थशक्तिमूलानुरणनरूपव्यङ्गय उभयशक्तिमूलानुरणनरूपव्यङ्ग्यचेति त्रिविधः । तत्र - अलंकारोऽथ वस्त्वेव शब्दायत्रावभासते ||३८|| प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा । वस्त्वेवेत्यलंकारं वस्तुमात्रम् । आयो यथा
संधिरेव चर्वणास्पदम्, यथा - उसिकस्येति ॥ स्थितिस्तूक्तेति रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ' इत्यादौ ' जाने कोपपराङ्मुखी ' इत्युदाहृता च ॥ ननु, विभावमुखेनाध्यधिक चमत्कारो दृश्यत इति तद्ध्वनिरपि वाच्यः । नैवम् विभावानुभावौ स्वशब्दावाच्या वेव, तच्चर्वणापि चित्तवृत्तिष्वेव पर्यवस्यतीति न रसभावेभ्योऽधिकं चर्वणीयम् ||३६||
,
A
5
10
15
ननु, विभावानुभावव्यभिचारिसंयोजनोदितस्थायिप्रतिपत्तिकस्य प्रमातुः स्थाय्यंश चर्वणाकृत एवास्वादः, तत् कथं भावशान्त्यादीनामङ्गित्वमित्याह - मुख्ये रसेऽपीति ॥
एवं विवक्षितान्यपरवाच्यस्य ध्वनेरलक्ष्यक्रमव्यङ्गयं भेदं विचार्य लक्ष्यक्रममाह - अनुस्वानमिति । अनुस्वानोऽनुरणनम् । तत्सदृशीघण्टाया धनुरणनमभि- 20 घातजशब्दापेक्षया क्रमेणैव भाति ॥ आद्यपर्धमनुवादरूपम् । हेतुत्वेनोपात्तं । शब्दशक्तिमूलम् | अनुरणनेन रूपो रूपणासादृश्यं यत्र तादृग् व्यङ्गयं यत्र ध्वनौ स तथा ॥ ३७ ॥
तत्रेति । त्रिषु । यद्यपि शब्दशक्तिमूलानुरणनरूपव्यङ्गये शब्द एव व्यक्षकस्तथाप्यर्थस्यापि सहकारिता अस्त्येव, अन्यथा अज्ञातार्थोऽपि शब्दस्तद्व्य- 25 अकः स्यात् । शब्दशस्तु केवलं व्यञ्जकत्वे मुख्यत्वमित्याह – प्रवानत्वेनेति अनलंकारमिति । अलंकाररूपाभ | वेनोपलक्षितं वस्तुमात्रम् । मात्रग्रहणेन हि रूपान्तरं निराकृतम् । यस्तु स्वप्नेऽपि न स्वशब्दवाच्यो, न च लौकिकः, किं तु शब्दसमयमाणहृदय संवादिविभावानुमान समुचितमा ग्विनिविष्टरत्या दिवासना