SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५६ काव्यादर्श नामसंकेतसमेतः हरत्ययं संप्रति हेतु रेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥४७॥ एवमन्यदप्युदाहार्यम् । व्यभिचारी यथा जाने कोपराङ्मुखी प्रियतमा स्वप्ने दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिरभ्य चौकशतैराश्वासयामि प्रिय भ्रातस्तावदहं शठेन विधिना निद्रार्दरिद्रः कृतः ॥४८॥ अत्र विधिं प्रत्यसुया । [ ४ च० उल्लासः ] 'पर्याप्त पुष्पस्तचकस्तनीभ्यः स्फुरत्प्रवालौष्ठ मनोहराभ्यः । लतावधूभ्य स्तरवोऽप्यवापुर्विनम्र शाखाभुजबन्धनानि ॥ 5 तदाभासा अनौचित्यप्रवर्तिताः । स्तुम इत्याद्यनुगतं तदाभासा रसाभासा भावाभासार्थं । तत्र रसाभासो यथास्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखेयं मृगयसे । सुनेको जातः शशिमुखि यमालिङ्गसि बलातपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥४९॥ अत्राने कामुकविषयमभिकाषं तस्याः बहुव्यापारोपादनं व्यनक्ति । भावाभासो यथाराकासुधाकरमुखी तरलायताक्षी सी स्मेरयौवनतरङ्गितविभ्रमास्या । afer करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ||५०|| अत्र चिन्ता, अनौचित्यप्रवर्तिता । एवमन्येऽप्युदोहार्याः || प्रत्यसूयेति । विप्रलम्भरससद्भावे ऽप्यसूयास्थितिचमत्कारकृत एवास्वादातिशयः ॥ अभिलाषमिति । परस्परास्थानन्धामिकाया हि रतेः शृङ्गारत्वमुक्तम् । अत्र तु कामनाभिलाषमात्ररूपा रतिर्व्यभिचारिभावो न स्थायी । एवं हास्याद्याभासोऽपि ॥ अत्र चिन्तेति । अन्योन्यानुरागाद्यभावेनानौचित्यम् । एतच भृङ्गारानुकृतिशब्दं 25 प्रयुञ्जानो मुनिरपि सूचितत्रान् । आभासोऽनुकृतिरमुख्यतेति एको अर्थः, तेन निरिन्द्रियेषु तिर्यगादिषु चारोपणात् तदाभासः, यथा - 10 15 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy