________________
४८
काव्यादर्शनामसंकेतसमेतः
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदै पाण्डुः कपोल: ।। २९ ।।
[ ४ च० उल्लासः ]
इत्यादी,
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यणं गृहीतवसने किंचाश्चित भ्रूलतम् । मानिन्याश्वरणानतिव्यतिकरे बाष्पाम्बुपूर्णक्षणं चक्षुर्जातमहो मपञ्चचतुरं जातागसि प्रेयसि ॥ ३० ॥ इत्यादौ च यद्यपि विभवानामनुभावानामौत्सुक्यवीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामेवास्ति स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैका
न्तिकत्वमिति ।
तद्विशेषानाह
शृङ्गारहास्पकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ २९ ॥
5
10
15
,
20
स्तृतीयस्या अभावादभिषा ध्वननं चेति द्वावेव व्यापारौ, अत एवाभिधामूलत्वम् ॥ est बन्धः ॥ प्रणतिपर इति विषयसप्तमी || ईक्षगमिति । ईक्षणव्यापारे ईक्षणशब्दः ॥ अन्यतम इति । विभावापेक्षपानुभावव्यभिचारिणां अनुभावापेक्षया विभावव्यभिचारिणां, व्यभिचार्यपेक्षया च विभावानुभावानामन्यतमत्वम् । तथा हि ' वियदलि ' इत्यादौ विभावभूतस्य सौन्दर्यस्यानुगतत्वेन 'प्रसीद ' इति पदमहिम्नानुमात्र वर्गों, मुग्धपदाच्च व्यभिचारिवर्गो भाति । ' परिमृदित' इत्यादौ चाङ्गम्लानत्वादेरनुभावस्यानुगत्या प्रवृत्तिः । ' कथमपि ' इति पदार्पितोऽभिलाषचिन्तौ - त्सुक्यग्लान्याळस्यादिर्म्यभिचारी विभावय भाति । व्यभिचारिणां च प्राधान्यं तद्विभावानुभावमा धान्यकृतम्, यथा-'दूरादुत्सुकम् ' इति । अत्रौत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन ' राद्' इत्यादिपदार्पितः सहसामसरणादिरूपोऽनुभावः ' प्रेयसि ' इति विभावश्व प्रकाशते । एवं द्वयप्राधान्ये सर्वप्राधान्येऽप्युदाहार्यम् । किंतु सर्वमान्य एव रसास्वादोत्कर्षः । तच प्रबन्ध एव, मुक्तकेषु तु कल्प्यते ॥ नैकान्तिकत्वमिति न व्यभिचारः ।। २७-२८ ॥
25
शृङ्गारेति । सकळजातिमुलभत्वेन हृद्यतया च पूर्वं शृङ्गारस्तदनुगामी च aat हास्यस्तद्विपरीतः करुणः । ततस्तन्निमित्तमर्थप्रधानो रौद्रः । कामार्थं .