________________
४७
10
[१० उल्लासः ] काव्यप्रकाशः।
प्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालि मितयोगिज्ञानवे संस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयोऽप्यभिधीयताम् । तद्ग्राहकं चै न निर्विकल्पकम् । विभावादिपरामर्शप्रधानत्वात् । नापि सविकल्प्यश्वयंमाणस्यालौकिकानन्दमयस्य तस्य स्वसंवेदनसिद्धत्वात् ।। उभैंयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः।। __ व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् , अश्रुपातादयोऽनुभावाः शृङ्गारस्येव वीरकरुणभयानकानींम् , चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः। वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः ।
धरणिरभिनवाङ्कुराङ्कटङ्का भणतिपरे दयिते प्रसीद मुग्धे ॥ २८ ।। इत्यादौ,परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
____15 कथमपि परिवारमार्थनाभिः क्रियासु । चर्वणानिष्पत्त्येति । स च लौकिकपत्यक्षानुमानागमोपभानादिप्रमाणजनितरत्याघवबोधात् तथा तटस्थपरसंवित्तिशालियोगिज्ञानात् सकलवैषयिकोपरागशुन्यात्मारामावहितपरयोगिगतस्वानन्दैकघनानुभवाच्च विशिष्यत इत्याह-लौकिकप्रत्यक्षादीति । लौकिकाद् आस्वादाद् योगिविषयाचान्य एवायं रसास्वादः, यतो विमा- 20 वादिचर्वणा तत्कालसारैवोदिता, न प्रापरकालानुबन्धिनी । जातिगोत्रादिविशेषपरामर्शनरहितं ज्ञानं निर्विकल्पम। विभावादिसंयोगाद् रसना निष्पचते, अतस्तथाविधरसनागोचरो लोकोत्तराऽर्थों रस इति तात्पर्य मुनिसूत्रस्येत्यभिनवगुप्तपादाः । ततोऽभिव्यज्यन्ते रसाः प्रतीत्यैव रस्यन्ते । तत्राङ्गित्वेनाभिव्यक्ती ध्वनिः, अन्यथा तु रसवदाधलंकारः। विभावानामनुभावानां व्यभिचारिणां च 25 पृथक् पृथग् रसेषु नियमो नास्ति, व्यभिचारात् । सामग्री तु न व्यभिचारि. णीत्याह – व्याघ्रादयः इति । यत्रापि विभावानामनुभावानां व्यभिचारिणां वा प्रधानत्वेन विवक्षितानां केवलानामेवोपादानं तत्राप्यौचित्याद् अन्यतमद्वयाक्षेपः, यथा - 'वियदलि' इति । अत्र च मुख्यार्थबाधाधभावान्मध्यकक्षा (१) लक्षणाया