________________
काव्यादर्शनामसंकेतसमेतः [४ च० उल्लासः ] भावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिमोऽपि गोचरीकृतश्चय॑माणतैकमाणो विभावादिनीवितावधिः पानकरसन्यायेन चर्यमाणः पुर इव परिस्फुरन्हृदयमिव प्रविशन्सर्वाङ्गीणमिवालिङ्गमन्यत् सर्वमिव तिरोदधद्ब्रह्मानन्दास्वा". दमिवानुभावयन्नलौकिकचमत्कारकारी शृङ्गारादिको रसः । . ___ स च न कार्यः । विभावादिविनाशेऽपि तस्य संभवप्रसङ्गात् । नापि ज्ञाप्यः। सिद्धस्य तस्याभावात् । अपि तु विभावादिमि. य॑ञ्जितचर्वणीयः । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेद्न कचिद् दृष्टमित्यलौकिकत्वसिद्धभूषणमेतन्न दूषणम् । चर्वणानि
पत्त्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम् । लौकिक- 10 येनादयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते ॥ चय॑माणतेकप्राण इति । चळमाणकसारो, न तु सिद्धस्वभावो, न च चर्वणातिरिक्तकालावलम्बी, अत एवं विभावादिजीवितावधिः । तदस्त्यास्वादात्मा प्रतीतिर्यस्यां रतिरेव भाति । तत एव विशेषान्तरानुपहितत्वात् सारसनीयासतो न लौकिकी, न मिथ्या, नानिवाच्या, न लौकिकतुल्या, न तदारोपरूपेति । संक्षेपश्चाय-मुकुटपतिशीर्षकादिना 15 तावन्नटदिराच्छाधते, गाढमाक्तनसंवित्संस्काराच काव्यबलानीयमानापि न तत्र रामधीविश्राम्यति । तत एवोभयदेशकालत्यागः । रोमाश्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टा नटे देशकालानियमेन रतिं गमयन्ति, यस्यां स्वास्मापि तद्वासनाववादनुभविष्टोऽत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया येनार्जनाभिष्वादिसंभावना, न च नियतपरात्मैकगततया येन 20 दुःखद्वेषाधुदयः, तेन साधारणीभूता संतानवृत्तरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणीभावना च विभावादिभिः । न कार्य इति । विभाबादयो न रसनिष्पत्तिहेतवस्तदोधापगमेऽपि रससंभवमसङ्गाद, नापि ज्ञप्तिहेतव: प्रमेयभूतस्य कस्यचित् सिद्धस्य रसस्याभावात् ॥ अलौकिकत्यसिद्धेरिति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः। स एव च भूषणं, पानकरसास्वादोऽपि 25 किं द्राक्षामरिचादिषु दृष्ट इति तत्समानोऽयम् ॥
नन्वेवं रसोऽप्रमेयः स्यात् । एवमेतत् । रस्यतैकमाणो ह्यसौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिरिति कथम् ? । नेयं रसस्य, अपि तु तद्विषयाया रसनायाः । तभिष्पत्त्या तु तदेकायत्तजीवितस्य रसस्य निष्पविरुपवर्यत इत्याह