________________
ર
काव्यादर्शना संकेतसमेतः
व्यज्यतेऽपि तु काव्ये नाटये चाभिघातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सरवोद्रेकमकाञ्चानन्दमय संविद्विश्रान्तिसंतत्वेन भोगेन भुज्यत इति मट्टनायकः ।
दिस्वोचितचित्तवृच्युदयव्यग्रतया का सरसत्वकथापि स्यात् । तन्न प्रतीनिरनु- 5 भवस्मृत्यादिरूपा रसस्य युक्ता । एतदेवोत्पत्तावपि दूषणम् । ततो नोत्पत्तिरपि ॥ नाभिव्यज्यत इति । शक्तिरूपस्य हि शृङ्गारस्य पूर्व स्थितस्य पश्चादभिव्यक्तौ विषया तारतम्यमवृत्तिः स्यात् । तत्रापि च कि स्वगतोऽभिव्यज्यते परगतो वेति पूर्ववदेव दोष:, इत्याह - अपि तु काव्य इति । दोषाभावगुणालंकारमये ॥
1
इति । चतुर्विधाभिनयरूपे || अभिधात इति । अयमर्थः । काव्यात्मनः 10. शब्दस्याभिधाभावनाभोगी कृतिरूपास्त्रयोऽशाः । तत्र अभिधायकत्वं वाच्यविषयं, भावकत्वं रसादिविषये, भोगस्वं सहृदयविषयमिति त्रयभूना व्यापाराः । तत्राभिधायोगो यदि शुद्धः स्यात्, तत् तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषाचलंकाराणां को भेदः । वृत्तिवैचित्र्यं श्रुतिदुष्टादिवर्जनं च अकिंचित्करम् । तेन रसभावनाख्यो द्वितीयो व्यापारो, यद्वशाद् अभिघापि विलक्षणा । स च विभावादीनां 15 साधारणीकरणत्वहेतुः तेन च भावितो रसो भोगेनानुभवस्मृतिविलक्षणेन सवोद्रेकात् प्रकाशो यस्यानन्दस्य तन्मयी या संविद्विश्रान्तिश्चित्स्वभावनिर्वृतिविश्रमः सैव सतवं परमार्थी यस्य तेन परब्रह्मास्त्राद सब्रह्मचारिणेति यावत् । स एवाहअभिधाभावना चान्या तद्भोगीकृतिरेव च । अभिधाधामतां याते शब्दाथ लिंकृती ततः ॥
वर्षोऽशत्रयमध्यात्
[ ४ ६० उल्लासः ]
भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः । तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः ॥
20
किंतु कोऽयं भोगः प्रतीत्यादिव्यतिरिक्तः संसारे, रसनेति चेत्, सापि प्रतीतिरेवेति भोगीकरणव्यापारः काव्यस्य रसविषयो ध्वननात्मैव नान्यत् 25 किंचित, केवलं नामान्तरम् । निष्पादनाभिव्यक्तिद्वयानभ्युगमे च नित्यो वा
सन वा रसः स्यादन] तृतीया गतिः । न चापतीतं वस्त्वस्तिताव्यवहारयोग्यम् । भावकत्वमपि समुचितगुणालंकारपरिग्रहात्मकमस्माभिरेव वक्ष्यते । किं तदपूर्वम् ||३||