________________
[ ४ ५० उल्लासः ]
काव्यप्रकाशः ।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभि
10
रसीमवतीति वेत्येवंरूपतया । ततः प्राक् कथमपि न स्थायी प्रतीयते, विभावादियोग एव ह्यनुकरणरूपः स प्रतीयते । तेन रतिरनुक्रियमाणा शृङ्गार इत्यर्थः ॥ इदमपि न क्षोदक्षममिति भट्टतोतः ॥ तथा हि, अनुकरणरूपो रस इत्युक्तं न च तद् युक्तम्, यतः किंचिद्धि प्रमाणेनोपलब्धं तदनुकरणमित्युच्यते, यथैव 'असौ 5 सुरां पिबति' इति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नरगतं किं तदुपलब्धं सद् रत्यनुकरणतया मातीति चिन्त्यम् । तच्छरीरं निष्ठं मतिशीर्षकादि रोमाञ्च गगदिकादि भुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादिकं च न रश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित् प्रतिभाति जडत्वेन भिन्नेन्द्रि ग्राह्यत्वेन भिन्नाधिकरणत्वेन च ततो वैलक्षण्यात् । मुख्यावलोकने च तदनुकरणप्रतिभासः न च रामगतां रतिमुपलब्धपूर्विंगः केचित् । यच्चोक्तम् - ' रामोऽयमित्यस्ति प्रतिपत्तिस्तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात्, बाघकसद्भावे वा कथं न मिथ्याज्ञानम् | वास्तवेन च वृत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्धयसंभेदाद्' इत्यसत् || नर्तकान्तरेऽपि च ' रामोऽयम्' इति प्रति- 15 पत्तिरस्ति । ततr रामत्वं सामान्यमित्यायातम् । यत्रोक्तम् - ' विभावाः काव्याद् अनुसंधीयन्ते ' तदपि न विद्मः । न हि 'ममेयं सीता काचिद्' इति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । तस्मात् सामाजिकमतीत्यनुसारेण स्थाय्यनुकरणं रस इति शङ्कुकोक्तमपि निरस्तम् ॥ न च मुनिवचनमेवंविधमस्ति स्थाय्यनुकरणं रसा' इत्यलम् !! प्रतीतिपक्षे कक्षीक्रियमाणे सा प्रतीतिः परगता स्वगता afa दूषयन्नाह - न ताटस्थ्येनेति । रसो यदि परगततया प्रतीयेत तत् ताटस्थ्यमेव स्यात्, न च स्वगतत्वेन प्रतीयते । रामादिचरितमयात् काव्यादसौ प्रतीयते । स्वात्मगतत्वेन च प्रतीतौ करुणे दुःखित्वं स्यात् । ततः करुणप्रेक्षासु पुनरमवृत्तिः स्यात् । न च सा प्रतीतिर्युक्ता सीतायाः सामाजिकं प्रति, अविभावत्वात् । न च कान्ता साधारणं वासनाविकासहेतुर्विभावतायां प्रयोजकं देवतादौ 25 साधारणीकरणायोग्यत्वात् । न च स्वकान्तास्मरणं मध्ये संवेद्यते । ये च रामादीनां समुद्र सेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः । न च तवतो रामः स्मर्यतेऽननुभूतत्वात् । यदि च शब्दानुमानादिभ्यस्तत्प्रतीतिरिष्यते तदा न लोकस्य रसोपजनः प्रत्यक्षादिव । नायकमिथुनमतिपत्तौ हि लज्जाजुगुप्सास्पृहा
20
1