________________
काव्यादर्शनामसंकेतसमेतः [ ४ च० उल्लासः ]
1
इत्यादिकाव्यानुसंधानबळाच्छिक्षाभ्यास निर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितै: कारणकार्य सहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगाद् गम्यगमकभावरूपादनुमीयमानोऽपि वस्तु सौन्दर्यबलाद् रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां चर्व्यमाणो रस इति श्रीशङ्कुकः । विभावैः, शिक्षाभ्यासाद् अनुभावैः सान्त्रिकवाचिकाङ्गिकाहार्याभिनय रूपैस्तथाभ्यासनिर्वर्तितं यत् स्वकार्य कृत्रिमनिजानुभावार्जनं, तत्मकटनेन च व्यभिचारिभिः प्रकाशितैः कृत्रिमैः प्रयत्नार्जिततया ॥ तयेति । कृत्रिमत्वेन || गम्यगमकेति । वह्नेः शीतनिवृत्तिरनुमीयते इति । कारणस्यापि गमकत्वम् । एवं विभा- 10 वादेरपि गमकत्वमिति रसो वस्तुमुन्दरत्वाद् अनुमीयते न च अनुमितमात्रतयैव स्थित इत्याह - रसनीयत्वेनेति । रसनाव्यापारगोचरत्वेन कषायफलचर्वणपरपुरुषदर्शनप्रभवमुख प्रसेककळनारूपेण हेतुना अन्यानुमेयविसदृशः स्थाय्यनुकर्तृस्थत्वेन विभावादिभिः प्रत्याय्यमानः । तत्रासन्नपीति । नटेऽत्यन्ता विद्यमा नोऽपि ॥ चर्यमाण इति । सामाजिकजनास्वाद्यमानो मुख्यरामादिगतस्थाय्यनु- 15 करणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रस्यमानत्वाद् रसः । विभावा हि काव्यबलाद् अनुसंधेयाः, स्थायी तु काव्यबळादपि नानुसंघातुं शक्यः । रतिः शोक इत्यादयो हि शब्दा रत्यादिकमभित्रेयीकुर्वन्ति अभिधानत्वेन, न तु वाचिकायरूपतयावगमयन्ति । नहि वागेव वाचिकम् अपि तु तया निर्वृत्तमङ्गैरिवाङ्गिकम् । तेन
9
,
થયું
विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि । वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥
इत्यादौ न शोकोऽभिनेयः, अपितु अभिधेयः ॥
भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुशीकरकणधिः । स्वेद इव करतलसंस्पर्शादेष मे वपुषि ॥
-इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायिभावोऽभिनीयते, न तु उच्यते । अवगमनाशक्तिभिनयनं वाचकत्वाद् अन्या । ततः काव्यबलादपि स्थायी नावगन्तुं शक्यः । अत एव स्थायिपदं सूत्रे भिन्नविभक्तिकमपि मुनिना नोपात्तम् । स्थायिना रसनिष्पत्तिरिति स्थाय्येव
5
20
25