________________
[ ४५० सहासः ]
काव्यप्रकाशः ।
राम एवायमयमेव राम इति, न रामोऽयमित्यौचरकालिके arun रामोऽयमिति, रामः स्याद् वा न वायमिति, रामसदृशोऽयमिति चें मम्य मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपच्या ग्राह्ये नटे
सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी माणेश्वरी लोचनगोचरं गता ||२६||
ईषि,
दैवादहत्र तथा चैपलायतनेत्रया वियुक्तश्व । ratoविotoजलद: काळः समुपागतश्चायम् ||२७||
હું
नीतो व्यभिचारिभिरुपचितो मुख्यवृत्त्यानुकरणीये रामे रामादिरूपतानुसंधान - 10 बला अनुकर्तर्यपि नटे प्रतीयमान इति भावः । किं तु प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्युक्तं, तत्रापि विपर्ययो दृश्यते, यत इष्टजनषियोगाद् विभावादुत्पन्नो महान शोकः क्रमेणोपशाम्यति, न तु दाढर्यमुपैति । क्रोधोत्साहरतीनां च निजनिजकारणबलाद् उद्भूतानामपि कालवशादमर्षस्थैर्यsafarsanteed । तस्मान्नैव भावपूर्वकत्वं रसस्य, अपि तु तद्विपर्यय 15 एवेति लोल्लट दिव्याख्या निरस्ता ||
धीर् ' असावयम्' इत्यस्ति ' नासा एवायम्' इत्यपि ॥
विरुद्ध बुद्ध संभेदादविवेचितविप्लवः ।
5
ततोऽन्यथा शङ्कुको व्याचचक्षे । 'राम एवायम्, अयमेव रामः ' इति सम्यक्प्रतीतिः । नात्र 'नर्तक एव सुखी' इति प्रतिपचि: । 'न रामोऽयम् ' इति पर्यालोचनया बाधके ' रामोऽयम् ' इति मिथ्याप्रतीतिः । ' रामो वा न वा' इत्युभयकोटयवलम्बि संशयप्रतीतिः । ' रामसदृशोऽयम्' इति सादृश्यप्रतीतिः । ताभ्यो विलक्षणया प्रतिपत्त्या चित्रतुरगादिन्यायेन न हि चित्रतुरगादौ एताः प्रतीतयः । तद्वद् ' यः सुखी राम्रोऽसावयम्' इति ग्राह्ये नटे प्रतीतिरस्ति । उक्तं च
20
प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः ।
युक्तया पर्यनुयुज्येत स्फुरन्ननुभवः कया ||
विरुद्धा संदेहाद्यात्मिका, अविवेचितेति असंवेदितानेकरूपताप्रतिभासः ॥
— सेयं ममाङ्गेषु ' इति । ‘अविरलविलोल' इति । कान्यानुसंधानबलाद् आलम्बनोद्दीपन
25