________________
5
[४१० उल्लासः]
रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाचलंकारालंकार्यतया स्थितः ॥२६॥ आदिग्रहणाद भावोदयमावसंधिमावसबलत्वानि । प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः। यथोदाहरिष्यते । अन्यत्र तु प्रधाने वाक्याथै यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसंवत्यऊर्जस्वत्समाहितादयोऽलंकाराः । ते च गुणीभूतव्यायाभिधान उदाहरिष्यन्ते ।
• तत्र रसस्वभावमाहविभावादिना सहेवावभासते ॥
किं सर्वदैव रसादिरों ध्वनेः प्रकार: ? । नेत्याह-भिन्न इति ! रसादेः 10 प्राधान्येनालंकार्यत्वाद् अलंकाराश्व तदुपस्कारकाः, अत एव रसादिरेव वाक्याथीभूतः काव्यजीवितम् ।। रसाचलंकारादिति । रसक्दाचलंकाराद् भिन्नः पृथग्भूतो रसादिरनिभावेन स्थितो व्यवस्थितः । रसो वक्ष्यमाणः। भावा रत्यादयो निर्वेदादयश्च त्रयस्त्रिंशद् व्यभिचारिणः, तदाभासा रसाभासभावाभासा अनौचित्यप्रवर्तिताः । रसस्य च परविश्रान्तिरूपत्वात् शान्तिन संभवतीति मावस्यैव 15 शान्तिः प्रशाम्यदवस्था । स च रसादिरनिभावेन स्थितो यस्मिन् काव्ये शब्दार्थालंकारैर्गुणैश्च रसादिनिष्ठैरेवोपक्रियते तत्र रसादिध्वनिस्क्रम इत्याह - प्रधानतयेति । तस्माद् रसादियोंकित्वेन भासमानोऽसंलक्ष्यक्रमव्ययस्य ध्वनेः प्रकार इति स्थितम् । यथोदाहरिष्यते 'शून्यं वासगृहम् ' इत्यादौ ।। यत्र तु वाक्यार्थस्य प्राधान्यमङ्गिभावो रसादियाङ्गभूतोऽप्रधानः, तत्र गुणीभूतन्यङ्गये 20 रसवदाधलंकारस्य विषय इत्याह- अन्यत्र विति। यस्मिन् काव्ये रसादयोऽङ्गभूता वाक्यार्थीभूतश्चान्योऽर्थस्तत्र रसवदादयः। स एवालंकारशन्दवाच्यो योङ्गभूतो, न त्वन्य इति यावत् । तदुक्तम्--
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ।।
. 25 एवं च ध्वनेरुपमादीनां रसवदादीनां चालंकाराणां विभक्तत्वं भवति । यद्यपि रसेनैव जीवति काव्य, तथापि यदा कश्चिद् रस्यादिळभिचारी चोद्रितावस्था पतिपत्र एकघनचमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः ॥ २६॥