SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [४७. उल्लासः ] कचिदनुपपद्यमावतयात्यन्तं तिरस्कृतम् । यथाउपकृतं बहु तेच किमुच्यते सुजनता अधिक्षा भवता परम् । विदधदीसमेव सदा सखे मुखितमास्त्र ततः शरदां शतम् ॥२५॥ एतदपकारिणं पति विपरीतलक्षणया कश्चिद् वक्ति। विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । अन्यपरं व्यङ्ग्यनिष्ठम् । एष चकोऽप्यलक्ष्यक्रमव्यङ्गयो लक्ष्यव्यङ्गयक्रमः परः ॥ २५ ॥ अलक्ष्येति । न खलु विमावानुभावव्यभिचारिण एवं रसोऽपि तु रसस्तैरित्यस्ति क्रमः । स तु न लक्ष्यते । तत्र 10. कचित्पुनरिति । अनुपपद्यमान उपायतामात्रेणार्थान्तरपतिपत्तिं कृत्वा पलायत इस योऽर्थः स तिरस्कृतः ।। उपकृतमिति । इदं हि वाक्यमसंभवत्स्वार्थमित्यविवक्षितबाध्यं सद् वैपरीत्यादनुपकारं लक्षयद् अपकारकृतापाशस्त्यं ध्वनति । एवं . यात्रार्थस्य अनुपयोगस्तत्रार्थान्तरसंक्रमितत्वं, यत्र तु अनुपपचिस्तत्रात्यन्ततिरस्कृतस्वम् ॥२४॥ - अविवक्षितवाच्यं लक्षणामूळे द्विभेदमुक्वाभिधामूलं विवक्षितान्यपरवाच्य ध्वनिभेद द्विपकारमाइ-विवक्षितं चेति ॥ वाच्यमिति अभिधेयम् । स इति । विवसिताभ्यपरवाच्यो ध्वनिः ॥ एष चेति । ध्वनिरलक्ष्यक्रमलक्ष्यक्रमव्ययतया द्विधेत्याह-कोऽपीति । न लक्षयितुं शक्यः क्रमो यस्य तादृशं व्यङ्गन्यं यत्रेति बहुव्रीहिगर्भो बहुव्रीहिः । सोऽलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः । अलक्ष्यक्रमत्वाच 20 काणासमुन्मेषमात्रमप्यत्र नास्ति ॥ ननु, क्रमः कश्चिदस्त्येव, यतो न हि विभावानुभावव्यभिचारिणः स्वरूपेण रसाः, किं तु विभावादिपतीत्यविनामाविनी रसादीनां प्रतीतिरिति, तत्मतीत्योः कार्यकारणभावेन व्यवस्थानात् क्रमोऽवश्यंभावीत्याह-न खस्विति ॥ तत्कथमलक्ष्यक्रमस्वामित्याह- स तु न लक्ष्यत इति । सनपि क्रम उत्पलदलसूचीवेधन्यायेन 25 लाघान प्रकाशते । एतदुक्तं भवति । संघटनाव्यङ्गयत्वाद् रसादीनां अनुपयुक्तेऽप्यर्थविज्ञाने उचितसंघटनाश्रवणसमये एव रसास्वादः ॥२५॥ तत्रेति । तयोर्मध्याद रसादिरयोऽक्रमः। ध्वनेरक्रमो नाम भेदः ।न विद्यते क्रमो यत्रालक्ष्यक्रमव्यङ्ग्य इत्यर्थः। रसादिरों हि वाच्येनार्थन 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy