SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [ ४० उल्लासः ] काव्यप्रकाशः । अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ । अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥ २४ ॥ लक्षणामूळगूढव्यङ्ग्यप्राधान्ये सेत्यविवक्षितं वाच्यं यत्र स ध्वनावित्यनुवादाद् ध्वनिरिति ज्ञेयः । तत्र च वाच्यं कचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् ॥ यथा त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमादाय स्थितिमत्र विधेहि तत् ।। २४ ॥ अत्र वचनाद्युपदेशादिरूपतया परिणमति । ૨૭ नतया प्राधान्यादात्मत्वं साधितवान् । एष एव च पक्षः सहृदयानामावर्जकः । यत् तु व्यक्तिविवेककारो वाच्यस्य व्यङ्गयप्रतिलिङ्गतया लिङ्गिनि ज्ञानमनुमानमिति 10 व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद् वाच्यस्य व्यङ्ग्येन तादात्म्यतदुत्पन्नभावाद् अयुक्तम् || एवं व्यञ्जनाव्यापारस्य सर्वैरनपह्नुतत्वात् प्रकारान्तरस्य चामतिष्ठानात्, तस्य च व्यङ्ग्यमुखेन स्वरूपमतिलम्भः, व्यङ्ग्यस्य च प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यौ काव्यभेदौ । तत्रोत्तमो ध्वनिस्तस्य लक्षणाभि मूलत्वेन विवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ । तत्र लक्षणा- 15 मूलोऽविवक्षितवाच्यो ऽर्थान्तरसंक्रमितवाच्यो ऽत्यन्ततिरस्कृत वाच्यचेति द्विभेद इत्याह-अविवक्षितवाच्य इति । अविवक्षितवाच्यो यो ध्वनिभेदः, तत्र वाच्यं ध्वनौ भवेत् । वाच्यं ध्वनिः । ध्वनतीति कर्तृव्युत्पत्तेः व्यञ्जकोsर्थो ध्वनिरित्यर्थः । अर्थान्तरसंक्रमितात्यन्ततिरस्कृतलक्षणेन वाच्यस्य व्यञ्जकस्य वैचित्र्येण व्यङ्गयस्यैव विशेषः । व्यञ्जक वा चत्र्याद् वियुक्तं व्यङ्गयवैचित्र्यम् || संक्रमितमिति । णिचा 20 सहकारियुतेन व्यञ्जनव्यापारेणेति योगः । येन वाच्येनाविवक्षितवाच्यो ध्वनिर्व्यपदिश्यते तद् वाच्यं द्विधेति संबन्धः ॥ तत्रेति । प्रकारद्वये योऽर्थं उपपद्यमानोऽपि तावतैवानुपयोगाद् धर्मान्तरसंबलतयाऽन्यतामिव गतोऽपि लक्ष्यमाणः, स रूपान्तरपरिणतोऽर्थान्तरसंक्रमितवाच्यो, वाक्ये यथा-'ध्वामस्मि' इति । अत्रानुपयोगात्मिका मुख्यार्थबाधास्ति इति लक्षणामूलत्वम् । शुद्धस्य चार्थस्यावि- 25 विवक्षितत्वाद् अविवक्षितवाच्यत्वं न च तिरस्कृतत्वं धर्मिरूपेण तस्यापि तावत्यनुगमात् || अत एव परिणत इत्युक्त्या व्यवहृतं वचनादीति । अनुपयुज्यमानार्थ उपदेशादि लक्षयत् व्यङ्गयं प्रयोजनरूपमन्यशब्दावाच्यं धर्मान्तरं व्यनक्ति । न हि वचनमात्रमेव, किंतु आप्ततयोपदेशं ते यच्छामीत्युपदेशे वाक्यार्थः परिणमितः ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy