________________
३२
काव्यादर्शनाम संकेतसमेतः
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भ निभृतं गुरुः खेदं खिने मयि भजति नाद्यापि कुरुषु || १५॥ अत्र मयि न योग्यः खेदः, कुरुषु तु योग्य इति काका मकाइयते । न च वाच्यसिदयङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्कयम् । प्रश्नमात्रेणापि काकोविश्रान्तेः ।
[ ३ तृ० उल्लासः ]
त आ मह गण्डत्थलणिमियं दिट्ठि ण णेसि अण्णत्तो । 'हि सच्चे अहं ते अ कउली ण सा दिट्ठी ॥ १६ ॥ अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत्, चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं त इति व्यज्यते ।
उद्देशोऽयं सरसकदेलीश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ॥ किं चैतस्मिन्मुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ||१७||
-
प्रतीतेरीषद्भूमिः काकुस्तद्वैशिष्ट्याद् यथा - ' तथाभूताम् ' इति । कौरवैर्युधिष्ठिरं प्रति प्रधानाः प्रेषिताः ततस्तेन सहदेवे ' संप्रति सन्धिः कर्तुं युक्तः ' ' इति भीमं प्रति प्रेषिते भोमस्येयं सकाकूक्तिः ||
5
10
ननु, ' तथाभूतां दृष्ट्वा 'इत्यादि वाच्यस्य सिद्धौ काकुः स्त्ररविशेषोऽङ्ग- 20 कारणमिति वाच्यसिद्ध्यङ्गलक्षणो गुणीभूतव्यङ्गयभेदः कथं न भवतीत्याशङ्कयाह - न च वाच्येति । ' हे सहदेव कुरुषु किं न खेदो गुरोर्यन्मयि खेहः ' इत्येवंरूपेण प्रश्नमात्रेणापि काकोर्विश्रान्तत्वात् । काकोस्तु यद् वैशिष्टयं तत्पर्यालोचनया सहृदयस्य व्यङ्ग्यार्थ प्रतीतिः ॥ वाक्यविशेषाद् यथा - तइति । तदा मम गण्डस्थलनिमितां निक्षिप्तां नानैषीरन्यत्र, इदानीं च सैवाहं, तौ च 25 कपोलौ ॥ प्रच्छन्नकामुकत्वमिति । वाक्योपात्तपदसमन्वयान्यथानुपपत्तेर्वाक्य पर्या लोचनयावसीयते । वाच्यविशेषाद् यथा - 'उद्देश:' इति । न ह्यत्र वक्तस्वभावपरिशीलनस्योपयोगः, नापि वाक्ये पदानां व्यङ्ग्यमन्तरेण अन्वयानुप[प] त्तिः,