________________
काव्यप्रकाशः।
[३४० उमास.]
[ तृतीय उल्लासः ] अर्थाः प्रोक्ताः पुरा तेषाम् अर्था वाच्यलक्ष्यव्यङ्गयाः। तेषां वाचकलाक्षणिकव्यमकानाम् ।
अर्थव्यञ्जकतोच्यते। कीदृशीत्याहवक्तृषोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः ॥२१॥ प्रस्तावदेशकालादेवैशिष्टयात्प्रतिभाजुषाम् ॥ योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥२२॥
बोदव्यः प्रतिपाद्यः । काकुव॑नेविकारः। प्रस्तावः प्रकरणम् । अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः । क्रमेणोदाहरणानि
10 अयिपिहुलं जलकुम्भं घेत्तूण समागदमि सहि तुरियम् । समसेयैसलिलणीसांसणीसहाँ वीसंमामि खणम् ।।१३।। अत्र चौर्यरतगोपनं गम्यते।। ___ उण्णिई दोब्बल्लं चिन्ता अलसर्तणं सणीससियम् ।
मह मन्दभायिणीये केरं सहि तुहवि अहह परिहवइ ॥१४॥ 15 अत्र इत्यास्तत्कामुकोपभोगो न्यज्यते।
अर्थव्यञ्जकतेति । अर्थों व्यञ्जको यदि निरपेक्षस्तत्सर्वदा तमर्थमवगमयेत् । अय सापेक्षः किं तस्यापेक्षणीयमित्याह - वक्तृबोद्धव्येति । यः परमतिपत्तये वाक्यमुच्चारयति म वक्ता । साकाङ्क्षाणां पदानां समूहो वाक्यम् । शब्देन द्विविधं मुख्यं लाक्षणिकं वाभिधाव्यापारमाश्रित्य यद् गोचरीक्रियते तद 20 वाच्यम् ॥
___ अइपिहुलमिति । काचिद् अविनीतवधूः कृतपरपुरुषसंभोगा गात्रगतविकारविशेषापहवेनाभिधत्ते । तस्याश्च असाध्वीत्वे अवगते तृतीयस्य तटस्थस्य । मतिमाजुषो व्ययप्रतीतिः ॥
सहि तुहवीति । द्वितीयार्थे षष्ठी। त्वामपीत्यर्थः । 'ककि लौल्ये 25 इत्यस्य धातोः 'काकु' शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छति-इति लौल्यमस्याभिधीयते । यद्वा, ईषदथे 'कु' शब्दस्य कादेशः । तेन हृदयस्थवस्तु