________________
३०
काव्यादर्शनामसंकेत समेतः
तद्युक्तो व्यञ्जक शब्दः तद्युक्तो व्यञ्जनयुक्तः ।
[ २ द्वि० उल्लासः ]
यत्सोऽर्थान्तरयुक् तथा ।
अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ||२०||
तथेति व्यञ्जकः ।
काव्यप्रकाशे शब्दनिर्णयो नाम द्वितीय उल्लासः ||२॥
5
संबद्धार्थाभिधायकत्वं मा प्रसांक्षीत्' इत्यादि । एष लक्ष्यक्रमव्यङ्गये वाक्यप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः । यत्र तु शब्दान्तरेणान्येनाभिधायाः प्रतिसवनाद् अभिहितस्वरूपोऽलंकारो न त्वाक्षिप्तस्तत्र वाच्यालंकारव्यवहार एव, न शब्दशक्तिमूलो ध्वनिः ॥
10
यथा
दृष्ट्या केशवगोपरागतया किंचिन्न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकत्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिगोप्यैवं गदितः स शमवताद् गोष्ठे हरिर्वश्विरम् ॥
'हे केशव, गोधूलिहतया दृष्ट्या न किंचिद् दृष्टं मया, तेनैव कारणेन मार्गे स्खलितास्मि ' - इत्येवंविधेऽर्थे यद्यप्येते प्रकरणेन नियताभिधानशक्तयः शब्दास्तथापि सा द्वितीयेऽर्थे व्याख्यास्यमानेऽभिधाशक्तिर्निरुद्धापि सती 'सलेशम् ' इत्यनेन शब्देन प्रत्युज्जीविता । 'सलेशं ' समूचनमित्यर्थः । अल्पोभावनं हि सूचनमेव । " हे केशव, गोपस्वामिन्, रागहृतया दृष्टयां, केशवगेन 20 गो [ ? ] परागेण हृतयेति वा स्खलितास्मि खण्डितचरित्रा जाता । 'पतिताम् ' इति भर्तृभावं मां प्रति 'एकः' इत्यसाधारणसौभाग्यशाली त्वमेव, यतः सर्वासामबलानां मदनविधुरमनसां ईर्ष्याकालुष्य निरासेन सेव्यमानः सन् गतिर्जीवितरक्षोपायः " इत्यर्थः । अत्र श्लेषालंकारः । सलेश - पदेनैव असंबद्धतापि निरस्ता ॥ १९ ॥
25
सहकारितयेति । यद्यपि अविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथापि अर्थ - स्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञातार्थोऽपि शब्दस्तदव्यञ्जकः स्यात् ||२०||
इति भट्टसोमेश्वरविरचिते काव्यादर्शे काव्यप्रकाशसंकेते द्वितीय उल्लासः॥२॥
15