________________
[ २ हि० उल्लासः ]
काव्यप्रकाशः
इत्थं संयोगादिभिरर्थान्तरोंभिधायकत्वे निवेौरितेऽप्यनेकार्थस्य कचिदर्थान्तरप्रतिपादनं तत्र नाभिधा । नियमनात् तस्याः । न लँक्षणा | मुख्यार्थबाधाद्यभावात् । अपि त्वञ्जनं
शब्दस्य
1
व्यञ्जनमेव व्यापारः ।
यथा
इङ्गितं यथा
भद्रात्मनो दुरधिरोहतनोविशालशोभतेः कृतशिलीमुख संग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत ||१२||
कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् | अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥
२९
5
"
10
आकाशे यथा
15
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ इत्थमिति । इत्थं संयोगाद्यैर्नियमितायामभिधायां यार्थान्तरप्रतीतिः सा . व्यञ्जनव्यापारादेवेत्याह-तत्र नाभिघेति ॥
भद्रेति । भद्रः कल्याणप्रकृतिः । भद्रा हस्तिनां विशिष्टजातिश्व । वंशः पृष्ठनाडि[ रन्वय ]श्च । शिलीमुखाः शरा भ्रमराश्च । परान् वारयति । परः प्रकृष्टो वारणो हस्ती च । दानं त्यागो मदश्च । अत्र राजवर्णन प्रस्तावेन नियन्त्रिताभि- 20 धानशक्तयो भद्रादयः शब्दा एकमेवार्थमभिधाय कृतकृत्या एव । तदनन्तरं त्वर्थावगतिर्ध्वननव्यापारादेव शब्दशक्तिमूलात् । अत्र पदसमूह एवं शब्दशक्त्या गजवृत्तान्तं ध्वनतीति वस्तुध्वनिः । यदा तु गजस्य नृपतेश्च यत् साम्यं तदत्र ध्वन्यते गजवृत्तान्तस्तूच्यत इति पक्षस्तदा पदैः प्रकरणनियन्त्रितैः पदार्था नृपतिसमुचिता उच्यन्ते । तात्पर्यशक्त्या तु वाक्यार्थः, ततः प्रकरणस्य शब्दशक्त्या श्रुतिरूपया वाक्योपपत्तिसहायया न्यक्करणं जायते । यथा 'दृद्धिरादैच्' इति मङ्गलप्रतिपत्तौ । तेन गजवृत्तान्तोचितपदार्थवाक्यार्थप्रतिपत्तिः । ततो द्वयोर्वाक्यार्थयोरुपमानोपमेयता, ध्वननव्यापारादित्युपमालंकारध्वनिरयं वक्ष्यते च
25