________________
- ૨૮
काव्यादर्श नाम संकेतसमेतः
I
शंभौ । मधुना मत्तः कोकिल इति वसन्ते । पातु वो दयितामुखमिति सांमुख्ये । भात्यत्र परमेश्वर इति राजधानीरूपाद् देशाद् राजनि । विभावसुविभातीति दिने" खौ, रात्रौ वह्नौ । मित्रं भातीति सुहृदि । मित्रो भातीति वौ । इन्द्रशत्रुरित्यादौ वेद एव न काव्ये स्वरो विशेषप्रतीतिकृत् । आदिग्रहणात् द्दहमेत्तेत्थणिया एद्दहमेत्तेहिं अच्छित्तेहिं । एहमेतावत्थ एद्दहमेत्तेहि“ दिएहि ॥ ११ ॥ इत्यादावभिनयादयः ।
[ २ द्वि० उल्लासः ]
10
समुद्रस्य, अचेतनत्वात् ॥ देवस्येति । पुरारातेरिति शब्दान्तरसंनिधानाच्छम्भौ ॥ मधुना मत्त इति । सामर्थ्याद् वसन्ते वसन्तस्यैव कोकिलमदजनकत्वात् स एव मधुशब्दवाच्य इत्यर्थः । पात्विति । बहुप्रकारं हि रक्षणम् । तत्र दयितामुखमपेक्ष्यऔचित्यात् प्रसादसांमुख्यमेव पाळनं नियम्यते ॥ दिन इति । दिवारूपाद् रात्रिरूपाद् वा कालात् । व्यक्तिः स्त्रीपुंनपुंसकानि । सर्वत्र प्रतीतिरिति योगः ॥ स्वरात् त्वर्थविशेषप्रतीतिः काव्यमार्गेऽनुपयोगिनीत्याह इन्द्रशत्रुरिति । 'स्वाहेन्द्रशत्रुर्वर्धस्व' इति । इन्द्रवासौ शत्रुश्चेति कर्मधारये 'समासस्य' इति सामान्यसूत्रे - 15 णान्तोदात्तत्वम् । इन्द्रः शत्रुर्यस्येति 'बहुव्रीहौ प्रकृत्या पूर्वपदम् ' इति विशेषसूत्रेण पूर्वपदप्रकृतिस्वरत्वे इन्द्रशब्दान्तोदात्तत्वम् । तथा हि यथामन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
इतः स दैत्यः प्राप्तश्रीत एवाईति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥
5
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥
अभिनयादय इत्यादिशब्दाद् अपदेश निर्देशसंज्ञेङ्गिताकारा गृह्यन्ते | 20 अपदेशो यथा
1
अध्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पमयमुत्तरं ददौ ॥
निर्देशो यथा
भर्तृदारिके दिष्ट्या वर्धामहे । यदत्रैव कोsपि कस्यापि तिष्ठतीति मामङ्गुली- 25
विलासेनाख्यातवत्यः ॥
संज्ञा यथा