________________
काव्यप्रकाश
[ २ मि० उल्लासः ]
विशिष्टे लक्षणा नैवम् व्याख्यातम् ।
विशेषाः स्युस्तु लक्षिते ॥१८॥ लक्षिते तटादौ ये विशेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो ब्यापारान्तरेण गम्याः। तच्च व्यञ्जनध्वननादिशब्दवाच्यमवश्यमेषितव्यम् । एवं लक्षणामूलं व्यअकत्वमुक्तम् । अभिधामूलं त्वाह
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । · संयोगाचैरवाच्यार्थधीकृद् व्याप्रतिरञ्जनम् ॥१९॥
संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देश: कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।। इत्युक्तैदिशा सशङ्खचक्रो हरिः, अशङ्खचक्रो हरिरित्युच्यते । रामलक्ष्मणाविति दीशरथौ। रामार्जुनगतिस्तयोरिति भार्गवकातः 15 वीर्ययोः । स्थाणुं भज भवच्छिद इति हरे । सर्व जानाति देव इति युष्मदर्थे । कुपितो मकरध्वज इति कामे । देवस्य पुरारीतेरिति
नन, एवं ' गङ्गायां घोष' इत्यादौ काव्यरूपत्वं स्यात्, ध्वननलक्षणस्य आस्मनो भावात् । सत्यम् , गुणालंकारसुन्दरशब्दार्थशरीरस्य सति ध्वननात्मनि आत्मनि काव्यत्वम् । यथा शरीरस्य विशिष्टाधिष्ठानयुक्तस्य सत्यात्मनि जीवव्य- 20 वहारोऽन्ययात्मनो विभुत्वेन भावाद् घटेऽपि जीवव्यवहारः स्यात् ॥१७-१८॥
___ अवाच्यार्थधीकृदिति व्यङ्गयार्थबुद्धिकृत् ॥ अञ्जनमिति । व्यञ्जनमेव व्यापारः ॥ सशङ्केति । अत्र संयोगाद् विप्रयोगाच्च विष्णुरेवोच्यते । यथा वा 'धेनुदोग्ध्री दीयताम्' इति धेनुशब्दस्य गवाजादिलक्षणार्थद्वये प्रसिद्धविवक्षितस्य विशेषस्य अप्रतीतौ सवत्सा सवर्करेति नियतेन संसर्गिणो विशेषावगमहेतुना 25 गवादौ दोग्ध्रीविशेषप्रतीतिः ।। स्थाणुं भजेति । अर्थात् प्रयोजनाच्छम्भौ ॥ सर्व जानातीति । प्रकरणाद् युष्मदर्थे । प्रकरणमशब्दम्, अर्थस्तु शब्दवानित्य. नयोर्भेदः ॥ कुपित इति । लिङ्गाचित्रात् कामे । कोपलक्षणं हि चिह्न कामस्यैव, न