________________
२६
काव्यादर्शना संकेतसमेतः
२ द्वि० उल्लास
यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति, तद्वद् यदि asपि बाधः स्यात् तत्प्रयोजनं लक्षयेत् । न च तटं मुख्योऽर्थः । नाप्यत्र बाँधः । न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैलक्षणीयैः संबन्धः । नापि प्रयोजने लक्ष्ये किंचित् प्रयोजनम् । नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ।
एवमप्यनवस्था स्याद् या मूलक्षयकारिणी । एमपीति । प्रयोजनं लक्ष्यते तत्प्रयोजनान्तरेण तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृदनबस्था भवेत् ।
ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते । गङ्गायास्तटे घोष इत्यतोऽधिकस्यार्थस्य प्रतिपत्तिश्च प्रयोजनमिति विशिष्टे लक्षणा । तत् किं व्यञ्जनेनेत्याह
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ १७ ॥ कुत इत्याह
ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् । प्रत्यक्षादेर्हि नीलादिर्विषयः । फलं तु प्रकटता संवित्तिर्वा ।
5
10
15
मवगमयतः शब्दस्य बाधकयोगः । यदि च प्रयोजनेऽवगमयितव्ये स्खलद्गतित्वं स्यात् तत् तस्य प्रयोगे दुष्टतैव स्यात् । एतद् वृत्तिकृद् व्याचष्टे - नापि गङ्गाशब्द इति । यथा तटस्य प्रयोजनप्रतिपादनेऽसामर्थ्य, न तथा गङ्गाशब्दस्य । तस्मादभिधालक्षणातिरिक्तस्वच्छक्तिद्वयोपजनितार्थावगमपवित्रित प्रतिपत्त प्रतिभासहायार्थद्योतनशक्तिर्ध्वननात्मा व्यापार:, तेन यत्केनचिल्लक्षितलक्षणेति नाम कृतं 20 तद् व्यसनमात्रम् । तथाभावे च प्रयोजने लक्ष्ये प्रयोजनान्तरान्वेषणेन अनबस्थानाद् अतिव्याप्तिः स्यात् ॥ १६ ॥
ततच लाभमिच्छतो मूलक्षतिरित्याह - एवमपीति ॥ प्रयोजनेनेति । प्रयोजनसहितत्वेन विशिष्टमेव लक्ष्यं लक्षणाया विषय इति किं व्यञ्जनेनेति न वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदादित्याह - ज्ञानस्य विषय इति । प्रत्यक्षादेर्हि 25 प्रमाणस्य विषयो घटादिः फलं तु प्रयोजनरूपम् । प्रकटत्वं भट्टानां मते । संवित्तिः प्रभाकरे । अर्थाधिगतिर्वा नैयायिकादीनाम् || तदेवं प्रयोजनविशिष्टं लक्ष्यं लक्षणाया अविषय इति प्रयोजने व्यञ्जनमेव व्यापारः ||