________________
२५
[१ दि० उल्लासः ] काव्यप्रकाशः ।
कुत इत्याहयस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥१४॥ फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ।
प्रयोजनप्रतिपिपादयिषया यत्र लक्षणाशब्दप्रयोगस्तत्र नान्यतस्तत्मतिपत्तिरपि तु तस्मादेव शब्दात् । न चात्र व्यअनादृतेऽन्यो 5 व्यापारः । तथा हि
नाभिधा समयाभावात्
गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः।।
हेत्वभावान्न लक्षणा ॥१५॥ मुख्यार्थबाधादित्रयं हेतुः । तथा च
लक्ष्यं न मुख्यं नाप्यत्र बाधों योगः फलेन नो। • ‘न प्रयोजनमेतस्मिन्न च शब्दः स्खलद्गतिः ॥१६॥
यस्येति । प्रयोजनभूतस्य फलस्य ॥ समुपास्यत इति । प्रयोजनावगमस्य मुखसंपत्तये हि स शब्दस्तस्मिन्नमुख्येऽर्थे प्रयुज्यते । यदि च सिंहो बटुरिति 51 'शौर्यातिशयेऽवगमयितव्ये स्खलद्गतित्वं शब्दस्य, तत् तर्हि प्रतीति नैव कुर्यादिति किमर्थ तस्य प्रयोगः ॥ 'गम्य' इति ण्यन्तो निर्देशः कर्तव्य इति । गङ्गाशब्दावगमयितव्ये इत्यर्थः । अन्यत इति । अभिधालक्षणाव्यापारात् ।। शब्दादिति । गङ्गादेः ॥ अन्यो व्यापार इति । अभिधालक्षणारूपः । तस्मादभिधालक्षणातिरिक्तो ध्वननयोतनव्यअनादिशब्दव्यपदेश्यस्तृतीयो व्यापारोऽस्ति । व्यापारश्च 20 नाभिधारमा-इत्याह - नाभिधेति ॥ न चासौ लक्षणैव । हेतुत्रयसंनिधौ हि लक्षणा प्रवर्तत इत्याह-हेत्वभावादिति ॥ १४-१५॥
___ लक्ष्यं न मुख्यमिति । यदि हि लक्षणाव्यापारसमधिगम्यं प्रयोजनमिष्यते तदा लक्ष्य तटं तावन्मुख्यं न भवति । न च तटस्य प्रत्यक्षादिना मुख्यार्थबाधः । न चापरिमितपुण्यत्वादिमिर्लक्ष्यैः संबन्धः । न च प्रयोजने 25 पावनत्वादी लक्षयितव्ये प्रयोजनान्तरमस्ति । किंच यत् फलं पावनत्वादिप्रयोजनरूपमुद्दिश्य लक्षणाशब्दप्रयोगः क्रियते तत्र प्रयोजने व्यङ्गये शब्दो न स्खलद्गतिः प्रतिपादयितुमशक्तः । स्वलन्ती बाधकव्यापारेण विधुरीक्रियमाणा गतिरवबोधनशक्तिर्यस्य शब्दस्य तदीयो हि व्यापारो लक्षणा । न हि प्रयोजन