________________
[ २ द्वि० उल्लास
काव्यदर्शनमसकेत समेत:
चाक्षेपेणैव सिद्धे लक्षणाया नोपयोग इत्युक्तम् ।
6
आयुघृतम्, आयुरेवेदम् ' इत्यादौ चें सादृश्यादन्यत् काकारणभावादि संबन्धान्तरम् । एवमादौ च कार्यकारणभावादिलक्षणा पूर्वमारोपाध्यवसाने । अत्र गौणभेदयोर्भेदेऽपि तादूप्यप्रतीतिः सर्वथैवाभेदावगमञ्च प्रयोजनम् शुद्धभेदयोस्त्वैन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि" । कचित् तादर्थ्यादुपचारः । यथेन्द्रार्थाः स्थूणा इन्द्रः । कचित् स्वस्वमिभा वात् । यथा राजकीयः पुरुषो राजा । कचिदवयवावयविभावात् । यथाग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । कचित् तात्कर्म्यात् ।
यथाऽतक्षा तक्षा |
j
आरोपाध्यवसानाभ्यां शुद्धगौणोपचारयोः । प्रत्येकं भिद्यमानत्वाद् उपचारचतुर्विधः ॥
तेनेत्युपसंहारे ॥ आद्यभेदाभ्यामित्युपादानलक्षणाभ्यां सारोप साध्यवसा मयो गौणशुद्धभेदात् प्रत्येकं द्वैविध्यमिति संकलने षोढा ||१२||
S
10
लक्षणा तेन षडूविधा ॥ १२ ॥
----
गौरनुबन्ध्य इत्यादौ जातिव्यक्त्योस्तादात्म्याज्जात्या व्यक्तेराक्षेपो, न तु लक्ष्यत्वमिति च प्राक् प्रतिपादितम् । सारोपसाध्यवसानौ शुद्धौ, संबन्ध विशेषात् । यथा- ' आयुर्धृतद्' इति । अत्र आयुर्लक्षणकार्यकारणभूतस्य घृतस्य स्वरूपेण प्रतिपत्तेरध्यारोपः । ' आयुरेवेदम्' इत्यादौ तु आयुर्लक्षण- 15 कार्यान्तर्लीनतया कारणभूतस्य घृतस्य प्रतीतेरध्यवसानम् ॥ एवमादौ चेति । आयुषः कारणे घृते तद्गतकार्यकारणभावलक्षणा पूर्वकत्वेन आयुष्ट्वं कार्यमुपचरितम् । अत्रापि कार्यकारणभावलक्षणागर्भीकारेण लक्षणा || प्रयोजनवती च लक्षणेत्याह • गौणभेदयोरिति ॥ अन्यवैलक्षण्येनेति । क्षीरादिवैसादृश्येन । यथा घृतमायुः कारणं, न तथा क्षीरादीति । आयुष्ट्वाच्च न व्यभिचरतीति च कार्यका- 20 रित्वादि प्रयोजनम् । संबन्धाश्च बहवः । यदुक्तमेकशतं षष्ठयर्था इत्याह- कचित् तादर्थ्यादिति ।। इन्द्रार्थेति, राजकीय इति, उदाहरणयोः शुद्धा सारोपा उपचर्यमाणेन उपचर्यमाणविषय स्वरूपस्य अनपह्नुतत्वात् ॥ अग्रहस्त इति, अतक्षेत्यनयोश्च शुद्धा साध्यवसाना। सर्वेषु रूढिरेव, न प्रयोजनम् । एवमुपचारमिश्रा चतुर्धा । यदुक्तम्
-
25