________________
[ २ नि० उल्लास ] काव्यप्रकाशः ।
गौरयमित्यत्र च । अत्र हि स्वार्थसहचारिणो गुणा जाडयमान्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तीति केचित् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोप्यभिधीयत इत्यन्ये । साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्यपरे । उक्तं चान्यत्र
अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता ।। इति । अविनाभावोऽत्र संवन्धमात्रं, न तु नान्तरीयकत्वम् । तत्त्वे
हि मश्चाः कोशन्तीत्यादौ लक्षणा न स्यात् । अविनाभावे 10 गतगुणसदृशगुणयोगलक्षणां पुरःसरीकृत्य उपमेये उपमानशब्द आरोप्यते ती गौणौ, गुणेभ्य आगतत्वाद् गौणशब्दवाच्यौ । स्वार्थसहचारिण इति । स्वार्थों गोशब्दस्य गोपिण्डः, परार्थों वाहीकादिः । गोशब्दो वाहीकशब्देन अनुपपद्यमानसमानाधिकरणत्वाद् बाधितमुख्यार्थः सन् स्वाभिधानपुरःसरं स्वसहचारिजाड्यादिगुणांल्लक्षयित्वा तत्सदृशवाहीकगतजाड्यादिगुणलक्षणाद्वारेण गो- 15 गुणसदृशगुणोपेते वाहीके उपचरितः, तेनेयमुपचारमिश्रा। लक्षणाद्वयगर्मीकारेण चतुर्थकक्षायां लक्षणेति लक्ष्यमाणगुणमुखेन गोशब्दो वाहीके लक्षणया प्रवर्तत इत्यर्थः ॥ न तु परार्थोऽभिधीयत इति । गोशब्देन स्वार्थसहचारिगुणलक्षणापूर्व सदभेदेन वाहीकगताः स्वसदृशा गुणा एव लक्ष्यन्ते, सव्यवधानशब्दव्यापारात् । न तु वाहीकार्थोऽभिधीयत इत्येकलक्षणागर्भेयं तृतीयकक्षायां 20 लक्षणेत्याहुः- अभिधीयत इति । लक्ष्यते ।। साधारणेति । गोर्वाहीकस्य च साधारणाः सहशा ये गुणास्तदाश्रयेण वाहीकार्थ एव लक्ष्यः ॥ अभिधेयेति । मुख्यादर्थाद् अविनाभूता तत्संबद्धव यार्थान्तरमतीतिः सा लक्षणा शुद्धेत्यर्थः । लक्ष्यमाणैश्च जाडयादिभिः संबन्धाद् या वृत्तिः सव्यवधानार्थनिष्ठः शब्दव्यापारः सा गौणी ।। नान्तरीयकत्वमिति । न अन्तरं नान्तरम् । अविना तत्र- 25 भवं नान्तरीयं, तदेव नान्तरीयकमविनाभावि, येन विना यन्न भवति तन्नान्तरीयकं, तादात्म्यतदुत्पत्तिलक्षणं जातिव्यक्त्यादिवत् ।। तत्वे हीति । नान्तरीयकत्वेन हि मश्चपुरुषयोरविनाभावोऽस्ति ।। अविनाभावे चेति । नान्तरीयकत्वे