________________
२०
काव्यादर्शनाम संकेतसमेतः [ 2 fão dare: ]
विषयिणारोप्यमाणेनान्तः कृते निगीर्णेऽन्यस्मिन्नारोपविषये सति सा साध्यवसान स्यात् । भेदाविमौ च सादृश्यात् संबन्धान्तरतस्तथा । गोणी शुद्धौ च विज्ञेयो,
इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ गौर्वाहीक इत्यत्र
बीजम् । यथा
प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्याद् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्याया वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥
5
अत्र नृपतिबलभराक्रान्तत्वेन समुद्रस्य अकम्पमानस्यापि वितर्कवशाच्चेतनानां मूर्द्धकम्पः प्रायो दृश्यत इति चेतनगतसंशयहेतुकमूर्ध कम्पसारयात् कम्पमानत्वमध्यवसितम् । एवं चात्र साध्यवसाना गौणी लक्षणा । इयं च 'भिन्नयोरपि कम्पयोरभेदेन अध्यवसानाद् भेदेऽपि अभेद इत्येवमात्मिकातिशयोक्तिः । तन्निबन्धनैव चेति वितर्कान् दधत इवेत्युत्प्रेक्षा । अत्र हि कार्यभूत- 15 कम्पदर्शनात् कारणभूतं समुद्रकर्तृकं वितर्कधारणं मिथ्याज्ञानस्वरूपयोत्प्रेक्षयोस्प्रेक्षितम् । अत्रापि वितर्कान् अधारयतोऽपि पयोधेर्वितर्कधारणोपनिबन्धाद् भेदेऽपि अभेद इत्यतिशयोक्तिर्गर्भीकृता । यद् भामहोत्प्रेक्षालक्षणेसाम्यरूपाविवक्षायां वान्येवाद्यात्मभिः पदैः । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥
20
या वाच्या सा इवादिभिरुच्यते । प्रतीयमाना तु अर्थसामर्थ्यात् । यावच तस्य राज्ञो न भगवद्वासुदेवतारोपिता तावत् कथं तद्व्यापारेषु संशयः स्यात् - इति 'प्राप्तश्रीः ' इत्यादिषु वितर्केषु भगवद्वासुदेवविषयेषु यथायोगं तत्तत्स्वरूप निराकरण हेतुगर्भतयात्र प्रवर्तमानेषु नृपतेर्भगवद्वासुदेवत्वमाक्षिप्तं, तेनात्र उपादानात्मिका लक्षणा प्रयोजनं च सर्वत्र भेदेऽपि ताद्रूप्य - 25 प्रतीतिः । ध्वनिकारस्तु ' ससंदेहोत्मेक्षयोः संकरात् संकरालंकारेण वाच्येन वासुदेवरूपता तस्य नृपतेर्ध्वन्यत इति रूपकालंकारोऽत्र व्यङ्ग्य ' इत्याचष्टे ॥ सारोप साध्यवसानयोश्च गौणशुद्धभेदाभ्यां प्रत्येकं द्वैविध्यमित्याह भेदाविमौ चेति ॥ सादृश्यहेतू इति । सादृश्यं हेतुर्ययो: । अयं भावः । यत्रोपमान
afront