________________
5
[२ दि० उल्लासः ] काव्यप्रकाशः ।
शब्दः स्वार्थमर्पयतीत्येवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा, उपचारेणामिश्रत्वात । अनयोर्भेदयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम् । तटादीनां गहादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंपत्ययः । गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः।
सारोपान्या तु यत्रोक्तो विषयी विषयस्तथा । आरोप्यमाण आरोपविषयश्च यत्रानपहनुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा। विषय्यन्त कृतेऽन्यस्मिन् सा स्यात् साध्यवसानिका ॥११॥ 10
स्वार्थमिति । स्ववाच्यभूतं स्रोतोविशेष गङ्गाशब्दाभिधेयम् । अयमभिपायः। यत्र शब्दः स्वमर्थ सर्वथा त्यजनन्यं लक्षयति तत्र लक्षणेन लक्षणा। यत्र तु स्वार्थमपि वदन्नन्यमर्थमुपादत्ते तत्रोपादानेनेति ।। उपचारेणेति । यथा गौर्वाहीक इत्यादौ वस्त्वन्तरे वस्त्वन्तरमुपचर्यते, न तथात्रेति भावः ॥ एतदेव द्रढयमाह अनयोरिति । तटादीनां लक्ष्याणां प्रतिपादने भेदात्मकं न तटस्थत्वम् ।। किंतु 15 कुन्तपुरुषयोगंगातटयोश्च अभेद एवेति यदन्यैस्तटस्थे लक्षणा शुद्धत्युक्तं तदयुक्तमित्याह -तत्त्वप्रतिपत्तौ हीति । तस्य भावस्तत्त्वमभेदः, तस्य प्रतिपत्तौ हि पतिपिपादयिषितमशब्दान्तरवाच्यं यदपरिमितं रौद्रत्वादिपावनत्वादि प्रयोजनं तस्य प्रतीतिः । भेदे तु गङ्गासंबन्धमात्रपतीतिर्न लक्षणाया विशेषः ॥१०॥
शुद्धां द्विभेदामुक्त्वा उपचारमिश्रां भेदचतुष्टये सारोपामाह - सारोपान्येति ॥ 20 विषयी गवादिविषयो वाहीकादिः ॥ यत्रानेति । गौर्वाहीक इत्यादौ आरोप्यमाणो गवादिरारोपविषयश्च वाहोकादिः। तयोर्भेदमपनुत्यैवानपढ्नुतस्वरूप एव वस्त्वन्तरे वस्त्वन्तरस्य अधिकस्य आरोप्यमाणत्वात् ॥ सामानाधिकरण्येनेति । समानमधिकरणं ययोः नीलोत्पलादिवद् भिन्नमवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । इयं चोपमानोपमेयस्वरूपस्य अनपढ्नुतत्वाद् वक्ष्यमाण-25 रूपकालंकारस्य बीजम् । यत्र तु आरोपविषयस्य वाहीकादेरध्यारोप्यमाणान्तर्लीनतया विवक्षितत्वात् स्वरूपापहवः क्रियते तत्र अध्यवसानं सहाध्यवसानेन वर्तते साध्यवसानेत्याह - विषय्यन्तरिति । 'गौरेवायम्' इत्यादौ आरोप्यमाणेन गवादिना निगीर्णतयैव आरोपविषयस्य प्रतीतेः। इयमतिशयोक्ते