________________
10
काव्यादर्शनामसंकेतसमेतः [१ वि० उल्लास ] दिभिरात्मनः प्रवेशसिद्धयर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा।
गौरनुबन्ध्य इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते ।
'विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे' इति न्यायात् । . इत्युपादानलक्षणा तु नोदाहर्तव्या । न हात्र प्रयोजनमस्ति । न वा रूदिरियम् । व्यक्त्यविनाभावित्वात् तु जात्या व्यक्तिरातिप्यते । यथा क्रियतामित्यत्र कर्ता, कुर्वित्यत्र कर्म, प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च । पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्र च रात्रिभोजनं न लक्ष्यते । श्रुतार्थापत्तेपत्तेर्वा तस्य विषयत्वात् ।।
गङ्गायां घोष इत्यत्र तटस्य घोषाधिकरणेतासिदये गङ्गा-. यत्र तु अर्थान्तरसिद्धयत्वेन तटस्य स्वार्थसमर्पणं तत्र लक्षणं स्वार्थसिद्धयताया अभावाद् उपादानरूपविपर्यासः ॥
जात्या व्यक्तिरिति । गोशब्दव्यापाराद गोत्वलक्षणा जातिरेवावगम्यते । 15 स एव मुख्योऽयः । जातौ तु श्रुतिनोदितमनुबन्धनं न संभवतोति जातिव्यक्त्योस्तादात्म्या जात्या स्वाश्रयभूताया व्यक्तेराक्षेपः। न तु शब्देनेतिव्यक्तौ न संव्यवधान: शब्दव्यापार इति न-शब्दव्यापाराद् अवसीयत इति नोपादानलक्षणेयम् ॥ यथाऽन्यैर्मट्टमुकुलादिभिरुदाहृता न च क्रमेण द्वयोर्वाच्यता विरम्यव्यापारद्वयाभागदित्यन्योक्तेनाह- विशेष्यम्' इमिति । विशेषणे उपाधौ 20 जात्यादिलक्षणे उपक्षीणशक्तिरभिधा समयसहायार्थावगमनशक्तिविशेष्यं धर्मिणं व्यक्तिलक्षणं न यायात् । यदि च अविनामावाद आक्षेपेऽपि लक्ष्यत्वमिष्यते तदा 'क्रियताम्' इत्यादी कादीनामपि लक्ष्यत्वं स्यात् ।। पीनो देवदत्त इति । अत्रापि नोपादानलक्षणा यथान्यैरुदाहृता ॥ श्रुतार्थापत्तेरिति । श्रुताच्छब्दादर्थस्य आपतनम् । तेन श्रुतार्यांपत्तौ ' रात्रौ भुक्त' इति शब्दः कल्प्यते ॥ 25 अर्थाद् अर्थस्य आपतनम् , अर्थापत्तौ तु रात्रिभोजनमर्थ एव । यथा देवदत्तो गृहे नास्ति । अर्थाद बहिरस्तीति अभिधैव स्वात्मनि निर्वाहाय शब्दान्तरमान्तरं वा कर्षयतीति मीमांसकाः॥