________________
[२दि० उल्लासः]
काव्यप्रकाशः। स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥१०॥ 'कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति' इत्यादौ कुन्ता
अभिधेयेन संबन्धात् सादृश्यात् समवायतः ।
वैपरीत्यात् क्रियायोगालक्षणा पञ्चधा मता ॥
अभिधेयेन संबन्धाद, यथा 'गङ्गायां घोषः' । सादृश्याद, यथा 'गौाहीको गौरेवायम्' इत्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिना प्रमाणेन बाधेऽभिधेयसादृश्यात् तद्गतगुणसहशगुणयुक्तमर्थान्तरं वाहीक. लक्षणं लक्षयति । प्रयोजनं च तादृप्यपतिपत्यादि । एते च सारोपायाः साध्यवसानायाश्च गौणलक्षणाया उदाहरणे । समवायः साहचर्यम् , यथा 10 'कुन्ताः प्रविशन्ती'त्यादौ कुन्तानां प्रवेशस्य असंभवान्मुख्यार्थबाधे साहचर्यात् पुरुषा लक्ष्यन्ते । कुन्तबन्त इति च प्रयोगाद् येषां रौद्रत्वादीनां धर्माणां न तथा प्रतिपत्तिस्तेषां सातिशयानां प्रतिपत्तिश्च प्रयोजनम् । वैपरीत्याद , भद्रमुख इति । अत्र भद्रमुखशब्दस्य अभद्रमुखे प्रयोगात् स्वार्थबाधः । अतोऽसौ स्ववाच्यभूतभद्रमुखवैपरीत्याद् अभद्रमुखत्वं लक्षणयावगमयति । प्रयोजनं चात्रापि 15 गुप्तासभ्यार्थप्रतीतिः । क्रियायोगात् कार्यकारणयोगाद , यथा
पृथुरसि गुणैमूर्त्या रामो नलो भरतो भवान् महति समरे शत्रुघ्नस्त्वं तथा जनकः स्थितेः । .इति सुचरितैः ख्याति बिभ्रच्चिरन्तनभूभृतां कथमसि न मांधाता देव त्रिलोकविजय्यपि ॥
20 अत्र अशत्रुघ्ने शत्रुध्नशब्दप्रयोगाद् मुख्यार्थबाधः। शत्रुघ्नशब्दश्च अशत्रुघ्ने शत्रुहननक्रियाकरीत्वयोगाल्लक्षणया प्रयुक्तः । प्रयोजनं च वर्ण्यमानस्य शत्रुघ्न"शब्दाभिधेयनृपतिरूपताप्रतिपादनम् । एवं निरन्तरार्थविषयः शब्दस्य व्यापारोऽभिधा । सान्तरार्थनिष्ठश्च निवन्धनत्रयसमुद्भवो लक्षणा । तेन अभिधैव मुख्येऽर्थ प्रविकृत्सुर्बाधकेन निरुध्यमाना सती अचरितार्थत्वाद् अन्यत्र प्रसरती- 25 . त्यभिधापुच्छभूतैव लक्षणा ॥१०॥
सापि द्विधा, शुद्धत्वाद् उपचार मिश्रत्वाच्च । तत्र शुद्धादिप्रकारा कचिदर्थान्तरोपादानेन, कचित् तु अर्थान्तरलक्षणेन । किं पुनरुपादानं लक्षणं चेत्याहस्वसिद्धय इति । स्वसिद्धयर्थतया वस्त्वन्तरस्य आक्षेप उपादानम् अन्यस्वीकारः।