________________
१६
"
काव्यादर्शनाम संकेतलमेतः
कर्मणि कुशल इत्यादौ दर्भग्रहणाद्ययोगाद् गङ्गायां घोष इत्यादौ च गङ्गादीनां घोषग्रधिकरणत्वासंभवान्मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगाद् येषां तथा प्रतिपत्तिस्तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच मुख्ये - नामुख्योsर्थी लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरानिष्ठो लक्षणा |
व्याकुर्वन्नाह — कर्मणीति । कुशान् लातीति दर्भग्रहणायोगाद् मुख्यार्थबाधे विवेचकवादी संबन्धे प्रसिद्धे प्रसिद्धिवशात् प्रवीणलक्षणो लक्ष्योऽर्थो लक्षणाव्यापारेtarted | आदिशब्दाद् द्विरेफ द्विकादयः । द्विरेफशब्देन हि रेफद्वितय- 10. योगिभ्रमरशब्दे लक्षणाद्वारेण रूढयनुवृत्तिरेव क्रियते । यथा वा लावण्यादयो लवणरसयुक्तत्वादे. स्वार्थाद् अन्यत्र हृद्यत्वादौ लक्ष्ये रूढाः ।
' तुरंगकान्तान नहव्यवाह ज्वालेव भित्त्वा जलमुल्ललास । '
इत्यादौ तु तुरंगकान्ताननहव्यवाहशब्दो वडवामुखाग्नौ लक्षणया प्रयुक्तः । न चासौ तत्र रूढो, वृद्धव्यवहारेष्वननुज्ञातत्वादिति दुष्टत्वम् । सति 15 तु गुप्तार्थप्रतिपादनादिप्रयोजनसद्भावे एवंविधानामपि लक्षणानामदुष्टत्वम् । यद् भट्टकुमारिल:
4
-
[ २ द्वि० उल्लासः ]
निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चिद् काश्विनैव त्वशक्तितः ॥
निरूढा' इति भ्रष्टोपचारप्रतीतयः । " लक्षणा ' इति लक्षणाशब्दाः | 20 अभिधानवद्' इति वृक्षादिनामशब्दवत् ॥
#1
तथा गङ्गेति । ' गङ्गातटे घोष' इत्युक्ते अपरिमितपावनादीनां न प्रति पत्तिः ॥ तथेति । अपरिमितत्वेन ॥ अन्योऽर्थ इति । लक्ष्यस्तटादिः ॥ सान्तरार्थनि इति । सान्तरः सव्य [व] धानस्तटादिलक्षणोऽर्थस्तदाश्रया क्रिया शब्दव्यापारो लक्षणा । तथा हि गङ्गाशब्दोऽभिधेयस्य स्रोतोविशेषस्य घोषाधिकरणतानुप- 25 पत्त्या मुख्यशब्दार्थबाधे योऽसौ समीपसमीपिभावात्मकः संबन्धस्तदाश्रयेण तटं लक्षयति । लक्षणायाश्च प्रयोजनं तटस्य गङ्गात्वैकार्थसमवेतासं विज्ञातपदपुण्यस्वादिप्रतिपादनं व्यङ्ग्यम् । न हि तत्पुण्यत्वादिशब्दान्तरैः स्प्रष्टुं शक्यते । तद्योग मुख्यार्थान्नत्वम् । तत् पञ्चषा आचार्यभतृमित्रेण उक्तम्