SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशः। [२.वि० लास.] आधभेदाभ्यां सह। सा च व्यङ्गयेन रहिता रूढी सहिता तु प्रयोजने । प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ।। तच गूढमगूढं वा, तच्चेति व्यङ्ग्यम् । गूढं यथा मुख विकसितस्मितं वशितवक्रिम मेक्षित समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥९॥ मुखमिति । अत्र विकसितशब्देन विकासस्य पुष्पधर्मत्वाद् बाधितव्याकोशा- 10 त्मकमुख्यार्थेन सच्छायत्वप्रसरणादिसादृश्याद् मुख लक्षयता हृयत्वसुरभित्वादिधर्मसहस्रं व्ययम् । एवं चायमत्यन्ततिरस्कृतवाच्यो लक्षणामूलो ध्वनिभेदः । अत्र हि वाच्यस्य विकासस्य निःश्वासान्ध इव आदर्श इत्यत्रान्धत्ववत् अनुपपद्यमानत्वाद् अत्यन्ततिरस्कारः । वशितशन्देन निश्चेतने वक्रिमणि असंभवत्पारतन्त्र्यात्मकस्वार्थेन किंकरत्वतन्मुखपेक्षित्वादिसाश्याद् वक्रिमाणं लक्ष- 15 यता एकान्ततस्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः । स्वेच्छया यत्रकुत्रचिद अविचरणमित्यादि ध्वन्यते । समुच्छलितशब्देन अनुपपद्यमानसामस्त्योर्ध्वललनात्मकस्वार्थेन अकस्माद् उत्कल्लोलीभवनसादृश्याद् विभ्रम लक्षयता प्रौढप्रौढतरत्वबद्धास्पदत्वसर्वजनामिलषणीयत्वादि व्यङ्ग्यम् । अपास्तशब्देन अमूर्तयां मत्याश्रितमर्यादायामसंभवदपक्षेपणात्मकस्वार्थेन स्वत्वनिवृत्तिसाह- 20 श्यात् संस्थां लक्षयता पुनरस्वीकारानवलोकनादि व्यङ्गयम् । मुकुलितशब्देन असंभवत्कोरकात्मकस्वार्थेन नवोद्भेदसादृश्यात् स्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयकास्पदत्वस्मरोद्दीपकत्वादि व्यङ्ग्यम् । उद्धरशब्देन बाधितधुरौन्मुख्यस्वार्थेन उच्चैस्त्वसादृश्याद् अंसबन्धवज्जघनं लक्षयता उपचितत्वरामणीयकस्मरनिकेतनत्वादि व्यङ्ग्यम् । इन्दुवदनेत्यत्र यदा उपचारस्तदा इन्दुशब्देन 25 बाधितस्वार्थेन पारिमाण्डल्यादिसादृश्याद् वदनं लक्षयता जगज्जीवयितृत्वादि ध्वन्यते । उद्गमशब्देन बाधितोदयात्मकस्वार्थेन अभिनवोदभेदसादृश्यात् तरुणिमानं लक्षयता स्पृहणीयत्वादि ध्वन्यते । मोदतेशब्देन बाधितहर्षात्मकमुख्यार्थेन
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy